SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका ३७ कार्तिकचतुर्मासकादर्वाक् शतदिन्या पर्युषणाकरणताऽऽपत्त्या 'समणे भगवं महावीरे सत्रीसइराइमासे वइक्क ते सत्तरि राईदिएहिं सेसेहि" त्ति प्रवचनबाधा प्रकटैव । अप्रामाण्ये च तत्पूर्वाऽऽचार्यकल्पितविधिप्रपादि ग्रन्थानां दत्ताञ्जलिताऽऽपत्त्या प्यनिष्टमेवेत्युभयपाशात् प्रत्युत्तरयितुमशक्तः कटुकभाषी भवतीति । ____ ननु सहर्ष श्रावणे पर्युषणाकरणतः स्मितं कुर्वन् भगवद्वैरित्वेन कथं विख्यातः ? इति चेत् । उच्यते-यथाऽन्योऽपि कश्चिदेवानांप्रियो विरुद्धाचरणतः सहर्ष स्वीयं स्वरूपं जनेभ्यो ज्ञापयन् तत्कर्मकारित्वेन विख्यातो भवति, तथाऽयमपि जिनानुपदिष्टं श्रावणेऽपि पर्युषणापर्व कृत्वा सहर्ष जनज्ञापनं कुर्वन्जिनाज्ञाविरुद्धचारित्वेन जनप्रसिद्धो भवतीति काव्यार्थः। अथाऽज्ञत्वेन प्रतिक्रमणदृष्टान्तं पुरस्कृत्य चतुष्पर्वीव्यतिरिक्ततिथिषु पौषधं निषेधयतोऽहंदाज्ञाबाह्यत्वं दर्शयन् तृतीयकाव्यमाह प्रायश्चित्तकृतिः प्रतिक्रमणसत्कृत्यं द्विशः प्रत्यहं, प्रज्ञप्तं भगवंस्त्वया तदधिकं कुर्वीत कः काम्यधीः । तदृष्टान्तमुखेन संवरमयं सामायिकादीव यत्, पर्वस्वेव नु पौषधं नियमयन्नस्ति त्वदाज्ञाबहिः॥१३॥ व्या०-हे भगवन् ! यद्यस्मात् यत्तदोनित्याभिसंबन्धात् यत्प्रायश्चित्तकृतिः-दिवारात्रिसम्बन्धिपापापहार्यनुष्ठानं प्रत्यहं
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy