________________
श्रीमहावीरविज्ञप्तितरौ नीरमिवाङ्गेऽन्न-मचिरस्थायि कारणम् ॥११॥ मृत्पिण्डाद्यं घटादौ यत्तच्चिरस्थायि कारणम् ।
आत्मादिकं यद् ज्ञानादौ, तत्सदास्थायि कारणम् ।।२।। गुरुतत्त्वप्रदीपे। तथा च बाह्याग्नेरिवाऽऽहाराविनाभावितैजसशरीरस्याङ्गीकारे परिणामिकारणताऽऽपन्नमन्नमवश्यमङगीकर्तव्यमेव । तच्च नग्नाटेन नाङ्गीकृतम्। अतो विरोधाsज्ञानमेव तस्य । न च केवलज्ञानमाहात्म्यान्निराहारित्वं केवलिन इति कल्पनीयं । एवमपि कल्पेत, यदि मतिश्रुतादिज्ञानवतामज्ञानिभ्यः क्षुधाया हीनत्वं दृश्येत । तच्च न दृश्यते, प्रत्युत कतिचिदज्ञानिभ्योऽपि क्षुधायाः प्राबल्यदर्शनात् । किञ्चकेवलिनो निराहारित्वे कुमारावस्थोत्पन्नकेवलस्यानगारस्यऽऽ हाराभावे शरीरवृद्ध्यभावेन बाल्यावस्थमेव शरीरं भवेत्, न
चैतत्सम्भवति। यतः पञ्चपञ्चाशत्सहस्रवर्षायुष्कस्य श्रीमल्लिनाथस्य वर्षशतेऽतिक्रान्ते केवलोत्पत्तावपि शरीरमानं तु तत्कालसम्भवि धनुषां पञ्चविंशतिरेवोक्तम् । किञ्च-केवलिनो वेदनीयोदयसद्भावादसातोदयहेतुका हि क्षुधा कथं न सम्भवतीत्यप्यालोच्यं । न चैतद्युक्तिमात्रेणैव केवलिन आहारसिद्धिः। आगमेऽपि प्रतिपादनात् । उक्तं च_ "आहारगाणं भंते ! जीवा जहा सकसाई नवरं केवलणाणाणंपि” भगश०८,उ०२ [ ३२१] तथा “एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कतिपरीसहा पं० ? गोअमा ! एक्कारस परीसहा पं०, णव पुण वेदेति । भगश०८, उ०८ [ ३४३ ] ते