SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका व्याख्या०-हे सर्व वित् स्वामिन् ! विसंवादाद्यवित् तेतवारिदिगम्बरः, कुलवधूः-कुलस्त्रीः प्रति निर्वाच्य-जनप्रसिद्धनाम्ना वाग्गोचरीकर्तुमशक्यं लिङगोपस्थादिकं निदर्शयन् वरं चेष्टते-सुन्दरचेष्टां करोतीत्युपहास्यसूचकक्रियापदमित्यन्वयः। विसंवादाद्यवित्त्व-पूर्वापरविरोधाद्यज्ञानित्वं, तत्कथमित्यमुनाप्रकारेणेतीति किं ? जिनेशि-केवलिनि, तैजसतनु-तैजसशरीरं, मन्वानोऽपि-स्वीकुर्वाणोऽपि, अपिशब्दो विरोधोद्भावनेऽग्रे लौकिकविरोधोद्भावनेऽपि योज्यः । अन्तराऽपिशब्दस्तु आदिशब्दसूचितप्रतिबन्या उद्भावको । नाहारहेतुस्थितिं । आहाररूपो यो हेतुस्तैजसशरीरं प्रति कारणं तस्य स्थिति-विधिं न मन्वानः । तथा मुधा-यथार्थवस्त्रविषयकत्वेनेप्सितफलासाधकत्वाद्विफला या बुद्धिस्तया धर्माराधनसाधनानि धर्मसाधनानि-रजोहरणमुखवस्त्रिकादीनि चतुर्दशोपकरणानि, तानि परित्याजयन्नपिपरिहारयन्नपि देहं प्रत्युत पालयन्-अलं तत्त्यागोपदेशेन देहशरीरं धर्मसाधनबुद्ध्या पालयन्नित्यक्षरार्थः। भावार्थस्त्वयं-कायं हि परिणामिकारणमभिगृह्य वाऽवतिष्ठते। तच्च परिणामिकारणं त्रिधा-अचिरस्थायि, चिरस्थायि, सदास्थायि चेति । तत्राऽचिरस्थायि परिणामिकारणं तावत्तरुतन्वादौ नीरान्नादिकं, चिरस्थायि पुनर्घटपटादौ मृत्पिण्डतन्त्वादिकं, सदास्थायि तु ज्ञानाऽवकाशादौ आत्माऽऽकाशादिकम् उक्तंच-"कार्य तिष्ठेदभिगृह्य, त्रिधोपादानकारणम ।
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy