SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आप्तस्वरूपम् भाव आवश्यकमिति गर्भार्थः । तस्यावश्यकस्य स्वरूपम् असाधारणरूपं किं १ केन ? क्व ? कथं १ कर्त्तव्यमित्येवमागमोक्तरूपं समासत:सङ्क्षपेण, सडक्षेपेणापि समग्रमसमनं वोच्यते ? इत्यतः प्राहु:किमपीति-स्तोकं मूलप्रन्थवत्समस्ततत्स्वरूपानभिधानाजमामि-प्रतिपक्षविक्षेपेण व्यक्तं प्रतिपादयामीत्यर्थः । अत्र पूर्वार्द्धनाभिमतदेवतां नमस्कृत्योत्तरार्द्धनाभिधेयं सप्रयोजनमभिहितम् । तत्राऽऽवश्यकस्वरूपभिधेयं सङक्षेपभणनं प्रयोजनम् । सम्बन्धस्तु प्रस्तुतप्रकरणाभिधेययोरभिधानाभिधेयलक्षणः सामर्थ्यगम्य एव । अत्र च जिनमित्यनेनापायापगमातिशयोऽभिधीयते । भान्तरारिवर्गविजेतर्येव जिनशब्दप्रवृत्तेः । देवेन्द्रवृन्दवन्दितपदपद्ममित्यनेन तु पूजातिशयः । अतिशयद्वयी तु सामर्थ्यगम्या। तथाहि-परमाप्तत्वाद् भगवतः किलात्र स्मरन्ति पूज्याः । आप्तश्च योऽवितथज्ञानेनावलोक्य पदार्थसाथै यथावस्थितं परेभ्यः प्रतिपादयति स एव व्यपदिश्यते । यथोक्तमस्मद्गुरुभिरनवद्यविद्यावैशारद्यविनिर्जितविबुधसूरिभिः श्रीमद्देवमूरिभिः-अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञात चाभिधत्ते स ाप्त' (प्रमाणनय०) इति । ततश्च भगवतः सम्यगभिधायकत्वाद्वागतिशयः। सम्यग वचनं च सम्यग्ज्ञानपूर्वकमितिकृत्वा ज्ञानातिशयश्च सामथ्याद् गम्यते । इत्यसाधारणातिशयचतुष्टयाभिधानेन स्तुतित्वमत्रोपपन्नमिति ॥१॥ साम्प्रतं 'तत्त्वभेदपर्यायाख्या' इतिन्यायात् व्युत्पत्तिगर्भमावश्यकस्वरूपं निरूपयन्तः परमगुरवः प्राहु:सामाइअ-चउवीसत्थयाइं जमवस्समेव करणिज्ज । समणाइणा तमावस्सयं ति सुत्ते जो भणियं ॥२॥ व्याख्या-समस्य-रागद्वेषरहितस्य सतोऽयन-गमनं समायः।
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy