SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम्न्यासिनां भवेयुः । अत्र पक्षश्राद्ध त्रीणि पार्वणानि कार्याणि । तदुक्तम्हेमाद्री मात्स्ये, महालये गयाश्रादे वृद्धौ चान्वष्टकासु च । नवदैवत्यमत्रेष्टं शेष षाटपौरुषं विदुः ।। इति । समर्थस्य तु द्वादशदैवत्यमुक्तं द्वैतनिर्णये निगमे, ज्ञेयं द्वादशदैवत्यं तीर्थ प्रोष्ठे मघासु च । इति । अत्र पूर्वार्ध तदेव । इतरेषां पितृव्यादीनामेकोदिष्टमेव । उपाध्यायगुरुश्वश्रुपितृव्याचार्यमातुलाः । श्वशुरभ्रातृतत्पुत्रपुत्रविमियपोषकाः ॥ भगिनीस्वामिदुहितजामातृभगिनीसुताः । पितरः पितृपनीनां पितुर्मातुश्च या स्वसा॥ सखिद्रव्यदशिष्याश्च तीर्थ चैव महालये । एकोद्दिष्टविधानेन पूजनीयाः प्रयत्नतः। इतिपुराणोक्तेः। विधवाया विशेषःस्मृतिनहे, चत्वारि पार्वणानीह विधवापाः सदैव हि । स्वभश्वशुरादीनां मातापित्रोस्तथैव च ।। ततो मातामहानां च श्राद्धदानमुपक्रमेत् । इति । इह-महालये इत्यर्थः । दर्शेऽपि तस्या विशेषः स्मृति. समुच्चये स्वभप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेच्छ्राद्ध यथाकालमतन्द्रिता ॥ इति । इदं च महालय श्राद्धमन्नेनैव कार्यम् नामादिना । मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोऽपि न कुर्वीत श्राद्धमामेन कार्ह चित् ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy