________________
क्षयाहश्राद्धस्य मलमासे कर्तव्याकर्तव्यविचारः । ६९ मझ्यन्ते परिमीयन्ते स्वकलावृद्धिहानित: । मास एते स्मृता मासात्रिंशतिथिसमन्विताः ॥ इति । मासश्चन्द्रमसः । स्वकला वृद्धिहानित इसेकं पदम् । एवं प्रत्यब्दशब्देन पष्ठयधिकशतत्र यतिध्यात्मकः संवत्सरोऽपि । एवं च सति यदाधिमासो भवेत्तदा प्रतिसाम्वत्सरिक श्राद्धं कथं कार्यमित्याकाङ्क्षायाम्-
माधवीये सत्यव्रतः,
वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि । मलमासे (१) न कर्त्तव्यं व्याघ्रस्य वचनं यथा । इति । लघुहारीतोऽपि,
प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया सुतैः । कचित्रयोदशेऽपि स्यादाद्यं मुक्ता तु वत्सरम् ॥ इति । अत्र द्वादशे मासि पूर्णे सत्यनन्तरदिने कार्येति पूरणीयम् । मासपक्ष इत्यादिना श्राद्धदिनस्य व्यासेन विशेषितत्वात् । यदा हि शुद्धचैत्रे मृतस्य मैत्रस्यापरे वर्षे चैत्रे मलमासो भवेत्तदा त स्मिन्नेवाद्याब्दिकं कार्यम् ।
आब्दिकं प्रथमं यत्स्यात्तत्कुर्वीत मलिम्लुचे | इति यमस्मरणात् ।
"शुद्धमासमृतानां तु मळे स्यात्प्रथमाब्दिकम् " । “असङ्क्रान्तेऽपि कर्त्तव्यमाब्दिकं प्रथमं नरैः " । इति वचनाभ्यां च । मळमासमृतानां तूत्तरे वर्षेऽधिकवैशास्त्रशुक्लसप्तम्यां मृतानां वैशाख शुक्ल सप्तम्यामधिकवैशाख कृष्णनवम्यां मृतानां ज्येष्ठकृष्णनवम्यां श्राद्धं कार्यम् ।
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः । आब्दि के पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥
(१) तु इति पुस्तकान्तरे पाठः ।