________________
श्राद्धचन्द्रिकायाम्
अथाच्छादनम्। . हेमाद्रौ पद्मपुराणे
सम्पूज्य गन्धपुष्पाचैर्दद्यादाच्छादनं ततः। अधौत सदशं नूनं निश्छिद्रममलीमसम् ।। तस्याभावे तु देयं स्यात्सवर्णैः क्षालितं तु यत् ।
प्रदेयं पितृकार्येषु कारुधौतं न जातुचित् ॥ . कामरजकः। प्रभासखण्डे---
आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि ।
आयुःप्रकाममैश्वर्य रूपं च लभते तु सः ॥ अहतलक्षणमाहप्रचेताः,
ईषद्धोतं नवश्वेतं सदशं यन्न धारितम् ।
अहतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति । ईषद्धौतमकारुधौतमिति हेमाद्रिः। भगवतीपुराणे--
अधरीयोत्तरीयार्थमुद्दिश्यैकैकमादरात् । वासोयुगं प्रदातव्यं पितृ कसे विपश्चिता ।।
निष्क्रयो वा यथाशक्ति वस्त्रालाभे प्रदीयते । ब्रह्मैववर्ते--
यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता । पितृणां वस्त्रदानस्य फलं तेनाप्नुतेऽखिलम् ॥
समर्थस्य निष्क्रयोऽसमर्थस्य यज्ञोपवीतमिति व्यवस्थित. विकल्पा। विष्णुधर्मोत्तरे--
स्त्रीणां श्राद्धे तु सिन्दरं दद्युश्चण्डातकानि च ।