SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्राडचन्द्रिकायाम्तराहित्यं विधेयम् । यदीत्यं कर्तुमशक्यं तदा मृत्संपृक्ताभिराद्भिः श्राद्धपाका: प्रोक्षणीया इति । तत आसनदानादीनि धूपदीपा. पाच्छादनदानान्तानि पदार्थानुसमयपक्षण काण्डानुसमयपक्षण वा कर्तव्यानि । पदार्थानुसमयो नामासनावाहनायगन्ध पुष्पादिदानानां देवे पिये च पूर्व पूर्व पदार्थ परिसमाप्यानुष्ठानम् । काण्डानुसमयस्तु एतान्सर्वान्पदार्थान्दैवे कृत्वा पश्चास्पियेऽनुष्ठानम् । आश्वलायन:-अप प्रदाय दर्भान्विगुणभुनानासनं प्रदायापः प्रदायेति । आसनं प्रदायेति सप्तम्यर्थे द्वितीया । उपवेशनस्य प्राक् चोदितत्वादिति वृत्तिकृत् । इदं दर्भदानं देवानां दक्षिणे पितृणां वामभागे कार्यम् । तदुक्तम्नागरखण्डे, ऋजुभिः साक्षतैर्दर्भः सोदकैदक्षिणादिशि । देवानामासनं दद्यापितॄणां त्वनुपूर्वशः ।। विषमर्द्विगुणैर्दभैः सतिलामपार्श्वगैः । इति । अत्र द्विजैः स्वासनमिति प्रतिवचनं प्रयोक्तव्यम् । गन्धमाल्यासनादीनां प्रदानेषु द्विजोत्तमः ॥ सुगन्धोऽस्तु सुदीपोस्तु चेत्यादि समुदाहरेत् ॥ इति नागरखण्डात् । आवाहनं स्मृतिषु द्विधा दृश्यते कचिदर्घ्यदानोत्तरं कचिदर्यपूरणोत्तरम् तत्र यथागृह्य व्यवस्था । आश्वलायनानां तु अर्यपूरणोत्तरमेव । तद्गृह्यपरिशिष्टे तथैव कथितत्वात् । ___ अथाादिविधिः। तत्रादौ देवे स्मृत्यन्तरे५..अथ दर्भान्समास्तीर्य प्रागग्रान्सयवान्भुवि । । .. स्थापयेदर्यपात्रे द्वे न्युब्जे तत्र कुशोपरि ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy