SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्राद्धदिने पूर्वाह्रकृत्यम् । जानासामध्येनेत्यर्थः । विप्राभावे दर्भवटौ श्रादं कार्यम् । निधाय वा दर्भवटूनासनेषु समाहितः । प्रैषानुषसंयुक्तं विधानं प्रतिपादयेत् ॥ . इति देवलोक्तेः। ताहशोदाहरणे सङ्कल्पितानप्रतिपत्तिमाहस एव, पात्राभावे क्षिपेदनौ गवे दद्यात्तथाप्सु वा । न तु प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः ॥ इति । __ अथ श्राद्धदिनपूर्वाह्नकृत्यमाहदेवला, तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः । आरभेत नवैः पात्रैरन्वारम्भं च बान्धवैः ॥ पाकमिति शेषा पूरणीयः । अशक्तः स्वयं पाकारम्भमात्रं कृत्वान्वारम्भ बान्धवैः स्वमातापितृवंश्यैः कारयेदिति तुर्यपादा. र्थः । कचित्पुस्तके अनारम्भं च बान्धवैरित्येव पातः पाठः । आश्वलायनोऽपि समानप्रवमित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पितृपाकः प्रशस्यते ॥ इति । .. पल्याः पाककतत्वे लिङ्गहेमाद्री प्रभासखण्डे, _ अथैतानि पपाचाशु सीता जनकनन्दिनी । इति । व्यासोऽपि गृहिणी चैव मुनाता पाकं कुर्यात्प्रयत्रतः । इति । तत्र वा ब्राह्मे, रजस्वलां च पाखण्डा पुंश्चलीं पतितां तथा । त्यजेच्छूद्रां तथा बन्ध्यां विधवां चान्यगात्रजाम् । व्यङ्गकर्णी चतुर्थाहास्नातामपि रजस्वलाम् । वर्जयेच्छादपाकार्थममातृपितृवंशजाम् ॥ इति । ५ श्रा० ०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy