________________
सङ्गितीपयुक्तश्राद्धपरिभाषा।
२९
इष्टिश्राद्ध क्रतुर्दशावष्टम्यां कामकालको । इति । अष्टम्यामष्टकाश्राद्धे । कचिद्विश्वेदेवापवादमाहशातातपः,
नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । मातृश्राद्धं च युग्मैः स्याददैवं प्राङ्मुखैः पृथक् ॥
योजयेदैवपूर्वाणि श्राद्धान्यन्यानि यत्नतः । इति । हेमादिर्नान्दीश्राद्धे भिन्नप्रयोगपक्षे मातृश्राद्धमदेवमित्याह । आभ्युदयिकश्राद्धं केषां चिन्मते दैवहीनमित्याह मार्कण्डेयः । आभ्युदयिकं प्रकृत्य
वैश्वदेवविहीनं तु के चिदिच्छन्ति मानवाः । युग्माश्चात्र द्विजाः कार्यास्ते पूज्याश्च प्रदक्षिणम् ॥ इति ।
अथ सङ्केपेणोपयुक्ता श्राद्धपरिभाषा। हेमाद्रौ शातातपः,
जपे होमे तथा दाने स्वाध्याये पितृकर्मणि ।
अशून्यं तु कर कुर्यात्सुवर्णरजतैः कुशैः ॥ अत्रि :
उभाभ्यामेव पाणिभ्यां विगैर्दर्भपवित्रके ।
धारणीये प्रयवेन ब्रह्मपन्थिसमन्विते ॥ मार्कण्डेय:
सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् ।।
नोच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ।। अङ्गुलिनियमः स्मृत्यन्तरे, ___ अनामिकाभ्यामेवैते पवित्रे ग्रन्थिसंयुते ।
धारयेदक्षिणेनैव पाणिना वा कुशग्रहः ॥ पवित्रदर्भसङ्ख्या मार्कण्डेयपुराणे
चतुर्भिर्दर्भपिजूलैाह्मणस्य पवित्रकम् ।