SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् राजमाषानंश्चैव मसूरांस्तु विवर्जयेत् ॥ अणुवीहिभेद: "व्रीहिभेदस्वणुः पुमान्” इतिकोशात् । भारद्वाजः, २४ मुद्गाढकीमाषवर्ज द्विदलानि दद्यादिति । मुद्गा=बनमुद्राः । आढकी=वरी । माषा=राजमाषाः षट्त्रिंशन्मते यावनाला कुलस्थांच वर्णयन्ति विपश्चितः । यावनालः =जोंवला इति हेमाद्रिः । भारद्वाज: - नक्तोद्धृतं तु यत्तोयं पवळाम्बु तथैव च स्वल्पं च कूष्माण्डफलं वज्रकन्दश्च पिप्पली ॥ ब्रह्मपुरा C हिब्यूग्रगन्धापनसं भूनिम्बं निम्बराजिके । (१) कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् ॥ राजिका भाषायां राई इत्युच्यते । अत्र हिङ्गुनो विहितपतिषिद्धत्वाद्विकल्पः । प्राश्वस्तु निषेधवचनं श्वेतहिङ्गुनिषेधक मिसाहुः । चतुर्विंशतिमते कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि । न वर्जयेतिलांश्चैव मुद्द्रमाषांस्तथैव च ॥ मार्कण्डेयपुराणे - लशुनं सृञ्जनं चैव पलाण्डुं पिण्डमूलकम् (२) । करम्भं यानि चाम्पानि' हीनानि रसवर्णतः ॥ (३) गान्धारिकामळावूनि लवणान्यौखराणि च । (१) कस्तुम्बुरुः = धान्याकः धनिया इति प्रसिद्धः । (२) पिण्डमूलकं = पिण्डाकृति मूलकम् । (३) गान्धारिका=तन्दुलीयकम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy