SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् राजा तु लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥ इति । हारीत:-- तीर्थे द्रव्योपपत्तौ च न कालमवधारयेत् । पात्रं च ब्राह्मणं प्राप्य सः श्राद्धं विधीयते ॥ इति । तीर्थे = वेण्यादौ । द्रव्योपपत्तौ = अलभ्यश्राद्धीयद्रव्यप्राप्तौ चामावास्यापराह्नादिरूपः कालो न प्रतीक्षितव्य इत्यर्थः । अत एव --- देवीपुराणे, अकालेऽप्यथवा काले तीर्थश्राद्धं सदा नरैः । प्राप्तैरेव सदा कार्यं कर्त्तव्यं पितृतर्पणम् ॥ पिण्डदाने तु तच्छस्तं पितॄणां चातिदुर्लभम् । विलम्बो नैव कर्त्तव्यो नैव विघ्नं समाचरेत् (१) ॥ इति । गजच्छायोक्ता- स्कन्दपुराणे, यदेन्दुः पितृदेवस्ये इंसश्चैव करे स्थितः । याम्या तिथिर्भवेत्सा. हि गजच्छाया प्रकीर्त्तिता ॥ इति। पितृदैवत्यं = मघा | हंसो =रविः । करो=हस्तनक्षत्रम् | याम्या तिथिः त्रयोदशी । तथा, i इसे इंस स्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुअरच्छाया इति बौधायनोऽब्रवीत् ।। अत्र भोक्तुर्दोष हेमाद्री - ब्रह्मपुराणे, (१) अत्र - प्राप्तैरेवेति आवश्यकस्नानतर्पणोपवासानन्तराम स्वर्थः । तावतो विलम्बस्य विध्यनुज्ञावशादप्रतिबन्धकत्वात् । इस्य किं पुस्तकान्तरे ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy