________________
सपिण्डीकरणश्राद्धस्य कालनिरूपणम् । ११९
इत्यादिवचनैस्तस्यैकादश । हद्वादशाह तृतीयपक्ष तृतीयासषष्ठमासैकादशमास संवत्सरान्तशुभागमा इत्यष्टौ काळा: सामान्यतः कथिताः । नवममासेSपि केषाञ्चिन्मते तत्कालत्वेनोपदिष्टः पैठीनसिना, सम्वत्सरान्ते विसर्जनं नवमे मासीत्येके । विसर्जनं = प्रेतत्वविसर्जनं सपिण्डीकरणमितियावत् । त
त्रेयं व्यवस्था । हारीत:
-
या तु पूर्वममावास्या मृताहाद्दशमी भवेत् । सपिण्डीकरणं तस्यां कुर्यादेव सुतोऽग्निमान् ॥
मृताहाद्दशमी या तिथिस्तत्परायाममावास्यायामित्यर्थः ।
अत एव-
कर्णाजिनि:,
सपिण्डीकरणं कुर्यात्पूर्ववच्चाग्निमान्सुतः । परतो दशरात्राच्चेत्कुहूरब्दोपतिरः ॥ इति । जाबालोsपि -
•
सपिण्डीकरणं कुर्यात्पूर्वे दर्शेऽग्निमान्सुतः । परतो दशरात्रस्य पूर्णे वन्दे तथेतरः ॥ इति । इदं चैकादशेऽह्नि दर्शागमे ज्ञेयम् । आहिताग्नेः -- सपिण्डीकरणात्प्रेते पैतृकं पदमास्थिते ।
आहिताः सिनीवाल्यां पितृयज्ञः प्रवर्त्तते ॥
इति गालववचनात्सपिण्डीकरणमन्तरेण पिण्डपितृयशस्य कर्त्तुमशक्यत्वान्मृतपितृकस्य तदकरणे प्रत्यवायात् । तथाच
जाबाल',
नासपिण्डानिमान्पुत्रः पितृयज्ञं समाचरेत् ।
पापी भवत्यकुर्वन् हि पितृहा चोपजायते । इति । अत्र गालववाक्ये आहिताग्निपदग्रहणादैोपासनाभिमतः पिण्डपितृयज्ञानुरोधेन नैतस्मिन्काले सपिण्डीकरणं किन्तु दशाह