SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्राडचन्द्रिकायाम्लौगाक्षिरपि मासादौ मासिकं प्रोक्तमान्दिकं वत्सरे गते । आधमेकादशे कार्यमधिके त्वधिकं भवेत् ॥ इति । ननु शुचिना कर्म कर्तव्यमितिविधानादाशौचाविमुक्तानां क्षत्रियादीनामेकादशेऽहि कथं श्राद्धाधिकार इति चेत् , न । आय श्रादमशुद्धोऽपि कुर्यादेकादशेऽहनि। . कर्तुंस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥ एकादशेऽह्नि यच्छाद्धं तत्सामान्यमुदाहृतम् । सर्वेषामेव वर्णानां सूतकं तु पृथक्पृथक् ॥ (१)इति शङ्खपैठीनसिवचनाभ्यां कर्नुस्तात्कालिकशुदेर भिधानात् । एवं ब्राह्मणानामपि पित्राशौचमध्ये द्वितीयादिदिने पुत्रस्य मातृमरणप्रयुक्ताधिकपक्षिण्याशौचे तथा दशमदिनरात्रिराज्यत्ययामादिष्वाशौचान्तरपातेन प्रासयहव्यहाद्याशोचे सत्यपि भवत्याचं श्राद्धम् । एवं वृषोत्सर्गशय्यादानायपि भवत्येव । सूतके मृतके चैव द्वितीयं मृतकं यदि । पिण्डदानं प्रकुर्वीत वृषोत्सगै तथैव च ॥ न हन्यात्सूतकं कर्म द्वादशैकादशाहिकम् । शुद्धो वा यदि वाशुद्धः कुर्यादेवाविचारयन् ॥ इति स्मृत्यन्तरात् । मदमरत्नदेवयाज्ञिकादयोऽप्येवम् । द्वादशाहिकमिति तु पददानाभिप्रायेण न तु सपिण्डीक. रणाभिप्रायेण । पददानस्य द्वादशाहे विशेषतोऽभिधाना(२)। (१) अत्र-इति हेमाद्रिविज्ञानेश्वरधृतवचनाभ्यामशुदो ल. त्यामपि प्रवृत्तिसम्भवात् इति वि० पु० पा० । (२) अतः परम् देये पितृणां श्राद्धे तु आशौचं जायते यदा । आशौचे तु व्यतिक्रान्ते तेभ्यः भादं प्रदीयते ॥ । इति ऋष्यशोणाशौचन्यपगमे पितृश्राधमात्रस्यापादितत्वात् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy