SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ महालये चतुर्दशीश्राद्धनिरूपणम्। ८७ चतुर्दश्यां तु यच्छाद्धं सपिण्डीकरणात्परम् । एकोदिष्टविधानेन तत्कार्य शस्त्रघातिनः ॥ इति गार्यवचनात् । समत्वमागतस्यापि पितुः शस्त्रहतस्य वै । एकोद्दिष्टं मुतैः कार्य चतुर्दश्यां महालये ॥ इति सुमन्तूक्तेश्च । समत्वमागतस्य सपिण्डीकरणेन पितृत्वं प्राप्तस्य । एतेनेदं श्राद्धं पार्वणविधिना कार्यमिति शुल. पाणिव्याख्या निरस्ता । पित्रादित्रिके द्वयोः शस्त्रादिमृतावेको दिष्टद्वितयं कार्यम् । “एकस्मिन्द्रयोकोदिष्टविधिः” इति पराशरमाधवलिखितस्मृतेः । त्रयाणामपि तथात्वे एको. दिष्टवयं कार्यमित्याहुर्माधव देवस्वामिविवेचनकारप्रभृत. यो भूयांसः। हेमाद्यपरार्कस्मृतिचन्द्रिकाकारश्रीमातामहादयो बहवो निबन्धकारास्त्रयाणां तथात्वे पार्वणमेवेत्याहुः। युक्तं चैतत् । चतुर्दश्यां च यच्छाद्धं सपिण्डीकरणे कृते । एकोद्दिष्टविधानेन तत्कुर्याच्छनघातिनाम् ॥ पित्रादयत्रयो यस्य शस्त्रघातास्त्वनुक्रमात् । स भूते पार्वण कुर्यादाब्दिकानि पृथक्पृथक् ।। इति मदनरत्ने पराशरस्मृतेः । एतेन माधवादयः परा. स्ताः । इदं च श्रादं सदैवं कार्यमित्युक्तं स्मृत्यर्थसारप्रयो. गपारिजातयोः । प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः । दैवयुक्तं तु तच्छ्राद्धं पितृणामक्षयं भवेत् ॥ तच्छाद्धं दैवहीनं चेत्पुत्रदारधनक्षयः । इति । महालय श्राद्धमधिमासे न कार्यम् । वृद्धिश्राद्धं तथा सोममग्न्याधेवं महालयम् । राजाभिषेकं काम्यं च न कुर्याद्भानुलविते ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy