SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ઢ श्राद्धचन्द्रिकायाम् तदध्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ इति । याज्ञवल्क्यः यद्ददाति गयास्थय सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ इति । विष्णुधर्मोत्तरे - ---- प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं प्रकर्त्तव्यं मधुना पायसेन वा ॥ अत्र यद्यपि वचनेषु मघायुतैव त्रयोदशी श्राद्धकालत्वेन प्रतीयते तथापि -- प्रौपद्यामतीतायां तथा कृष्णा त्रयोदशी । इत्यादिमघापदर हितवचनेभ्यः केवलापि तथा भवति द्वयोर्योगे तु फलाधिक्यमात्रम् । तथाच - स्मृतिचन्द्रिकायां स्मृत्यन्तरे, त्रयोदशी भाद्रपदी कृष्णा मुख्या पितृप्रिया । तृप्यन्ति पितरस्तस्यां स्वयं पञ्चशतं समाः ॥ मघायुतायां तस्यां तु जलौघैरपि तोषिताः । तृप्यन्ति पितरस्तद्वद्वर्षाणामयुतायुतम् ॥ इति । अपत्यनुकल्पः । एतेन मघायुतैव त्रयोदशी श्राद्धकाळो न शुद्ध त्रयोदशी नापि केवलं मघेति शुलपाणिव्याख्यानमपास्तम् । आश्विनेऽघिमासे सति मघात्रयोदशीयोगोऽधिमासि चेद्भवेत्तदा तत्रापि श्राद्धं कार्यम् । मघा त्रयोदशी श्राद्धं प्रत्युपस्थितिहेतुकम् । अनन्यगतिकत्वेन कर्त्तव्यं स्यान्मलिम्लुचे ॥ इति काठकगृह्यात् । मघाश्राद्धमविभक्ता अपि पृथक् कुर्युः । विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक पृथक् । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy