SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रत्याहृत्येति । इन्द्रियव्यूहम् - इन्द्रियाणां भद्रकरोदयाख्यव्याख्याविभूषिते तथाख्यातानां त्वगादीनां व्यूहः समूहस्तम् । न तु कतिपयमेव, किन्तु सर्वाणीन्द्रियाणीत्यर्थः । एकस्य द्वयोर्वा प्रत्याहारेऽपीन्द्रियान्तरस्य स्वविषयेषु प्रसकेश्वित्तसङ्गो भान्मग्नत्वाऽसम्पत्तेरिति भावः । " सङ्घाते प्रकरौघवारनिकरव्यूहाः समूहश्चय " इति हैमः । प्रत्याहृत्य - सङ्क्षिप्य नियम्येति वा । वैराग्येणाऽभ्यासेन चेन्द्रियाणां विवेकपूर्वकं विषयेषु प्रसकि निवार्येति सारार्थः । नहि विषयेभ्यः सर्वथा निवृत्तिरिन्द्रियाणां सम्भवति । स्वयं विषय सम्पर्कनिवारणेऽध्यापात्यानां विषयाणां सम्पर्कस्य निवारणाऽसम्भवात् । तस्माद्विवेकतो विषयेषु प्रसक्तिनियमनमेवेन्द्रियाणां प्रत्याहारः । विषयसम्पर्केपीन्द्रियाणां तथास्वभावत्वात्सव्यापारत्वेऽपि विवेकतस्तत्र तस्याSव्यासङ्गं वैराग्याऽभ्यासादिना संसाध्येति निष्कृष्टोऽर्थः । मग्नतायां नैतावत्पर्याप्तम्, किन्तु मनोनिग्रहोऽपि तत्राऽपेक्ष्यत इत्यत आहसमेत्यादि । निजम् - आत्मीयम्, लोकप्रयोगानुसारेणैतत् । मनःसमाधायेत्येतावताऽपि निजाऽर्थस्य लाभात् नहि कोऽपि परकीयमनःसमाधानं प्रति प्रवर्त्तते प्रभवति वेति बोध्यम् । मनःचित्तम् । समाधाय - वैराग्याऽभ्यासाभ्यां वृत्त्यन्तरपरिहारेणाऽऽत्ममात्रोपयुक्तं विधायेत्यर्थः । यदुक्तम्- “ यतो यतो निश्वरति मनश्व - ञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेदि "ति, " अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यत " इति च । इन्द्रियप्रत्याहार पूर्वकमनः समाधान फलमाह - दधदिति । चिन्मात्रवि श्रान्तिम्- चिदात्मनः शुद्धचैतन्यस्वभावः, निर्विकल्पं चैतन्य १६
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy