SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् नन्दस्वरूप 9 " कुमुदबान्धवः । विधुः सुषांशुः शुभ्रांशुरि " त्यमरः । आत्मपक्षे च - पूर्णः शाश्वतोऽखण्डो निर्विकल्पतयाऽनुत्तमश्चाऽऽनन्दो यस्य सः, गुणगुणिनोरभेदपक्षे त्वानन्दमयः । उभयत्र पक्षे सच्चिदाआत्मेत्यर्थः । तादृशश्वाऽसौ पूर्वोक्तश्लेषवशाद्धर्मसाम्याद्विधुरिव तस्य । कला - चन्द्रपक्षे - षोडशो भागः, तेषां समुदायोऽपि च कलासमुदायत्वात्कलैव सा । आत्मपक्षे चकेवलज्ञानाख्यशुद्धचैतन्यात्मकात्मपर्यायः, सा । द्योतते - प्रकाशते । साकल्येन कृष्णसम्पर्काऽपाये पूर्णिमायां जगत्पदार्थ सार्थप्रकाशिका चन्द्रस्य कलेव साकल्येन भवक्षये आत्मनः सच्चिदानन्दपूर्णताख्यः पर्याय स्त्रैकालिक सर्वद्रव्य पर्यायपरिच्छेदकः प्रकाशत इत्यर्थः । तस्माद्भवाऽल्पत्वाय ज्ञानचारित्राद्याराधनीयं पूर्ण तामभिलाषुकेणेति हृदयम् । श्लेषाऽनुप्राणितोपमाऽलङ्कारः ॥ ८ ॥ १५ इति ज्ञानसारे प्रख्यातव्याख्यातृ-कविरत्न - पन्यास प्रवर - श्रीयशोभद्र बिजयजीगणिवर शिष्य-पन्यास श्रीशुभङ्कर विजयगणिविरचितायां भद्रङ्करोदयाख्यव्याख्यायां प्रथमं पूर्णाऽष्टकं समाप्तम् ॥ १ ॥ अथ मग्नाऽष्टकम् ॥ २ ॥ पूर्णाष्टक श्रवणेन जातपूर्ण | रुचेः शिष्यस्य केनोपायेन सा पूर्णता साध्येति सोत्साह जिज्ञासां कलयित्वा मनस्यैव सा लभ्येति यादृशाऽनुष्ठानपरायणस्य सा लभ्या, तमेव मग्नं सलक्षणमाह प्रत्याहृत्येन्द्रियव्यूहं समाधाय मनो निजम् । दधच्चिन्मात्रविश्रान्ति मन इत्यभिधीयते ॥ १ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy