SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ वैराग्यभावना चेति। तथा चोच्यते 'भावनाभिरसम्मूढो, मुनिर्ध्याने स्थिरीभवेत् । ज्ञानदर्शनचारित्र - वैराग्योपगताश्च ताः ॥ १ ॥ ' 'वाचना पृच्छना सानु - प्रेक्षणं परिवर्तनम् । सद्धर्मदेशनं चेति, ज्ञातव्या ज्ञानभावना ॥ २ ॥ संवेगः प्रशमः स्थैर्य-मसम्मूढत्वमस्मयः । आस्तिक्यमनुकम्पेति, ज्ञेया सम्यक्त्वभावना ॥ ३ ॥ ईर्यादिविषया यत्ना, मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्व - मिति चारित्रभावना ॥४॥ विषयेष्वनभिष्वङ्गः, कायतत्त्वानुचिन्तनम् । जगत्स्वभावचिन्तेति, वैराग्यस्थैर्यभावना ॥ ५ ॥ ' (ध्यानदीपिका ८-११) अथ चतस्रः स्मारणादिकाः । यथा - स्मारणा, वारणा, नोदना, प्रतिनोदना चेति । यदाह 'सारणा वारणा चेव, चोयणा पडिचोअणा । सीअंताणं सुसीसाणं, दायव्वा होइ सूरिणा ॥ १ ॥ ' 'पम्हट्टे सारणा वुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा भुज्जो, निठुरा पडिचोअणा ॥२॥ ' ( विचारसारः २३८ ) 'जहिं नत्थि सारणा वारणा य संचोअणा य गच्छंमि । सो गच्छोवि अगच्छो, संजमकामीहिं मुत्तव्वो ॥ ३ ॥ ' ( पुष्पमाला ३४० ) 'जीहाएवि लिहतो, न भद्दओ जत्थ सारणा नत्थि । दंडेणवि ताडंतो, स भद्दओ सारणा जत्थ ॥ ४ ॥ ' ( पुष्पमाला ३३६ ) इत्येतेषु देशनाकथाधर्मभावनास्मारणादिपदेषु यथायोगं करणकारणोपदेशादिविधौ कुशलमतिर्गुरुर्भवतीति । अथ चतुर्विधानि चत्वारि ध्यानानि । यथा - आर्तध्यानं, रौद्रध्यानं, धर्मध्यानं, शुक्लध्यानं चेति । तच्च एकैकमपि चतुर्विधम् । तत्रार्तं चतुर्धा, यथा-अनिष्टयोगार्तं, १. विस्मृते । २. भूयः स्खलितानाम् । चतस्रः स्मारणादिकाः ..१६३...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy