________________
।। नमः श्रीमहर्षिपूज्यगंभीरविजयेभ्यो.।।
~
~
षोडशकग्रंथ-विवरणं ।
अमृतमिवामृतमनघं,
जगाद जगते हिताय यो वीरः। तस्मै मोहमहाविष
विघातिने स्तान्नमः सततं ॥१॥ यस्याः संस्मृतिमात्राद्
भवन्ति मतयः सुदृष्टपरमार्थाः । वाचश्च बोधविमलाः सा
जयतु सरस्वती देवी ॥२॥