SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ * भाषाद्रव्यनिसरणे विचारविशेष: * 'षड्दिगागतानामेव पुद्गलानां ग्रहणसम्भवात् ।।९।। आलापकश्चात्र प्रज्ञापनायामेवानुसन्धेयः।।४।। सहकारिणी यथा भाषाद्रव्यग्रहणादौ । क्वचिच्चेच्छामृतेऽपि तज्जातीयद्रव्यग्रहणं योगानुसारेण निरंतरं भवति यथा कार्मणादिद्रव्यग्रहणे। संभवति चेदमपि यदुत प्रभूततमपरमाणुनिष्पन्नभाषावर्गणाग्रहणेऽसमर्थोऽपि मन्दवचोयोगवान् जीवः तीव्रतरमनोयोगसाचिव्येन पुष्कलपरमाणुनिष्पन्नमनोद्रव्यग्रहणे शक्तो भवतीति। इदं त्ववधेयं यथा जीवः सर्वैरेवाऽऽत्मप्रदेशैः भाषाद्रव्यस्कन्धान् गृह्णाति तथैव सर्वैरेवाऽऽत्मप्रदेशैः भाषात्वेन परिणम्य मुञ्चति। न चैवं मुखवत् हस्तपादादिदेशावच्छेदेनाऽपि भाषोत्पादप्रसङ्ग इति वाच्यम् इष्टापत्तेः, नवरमयं विशेषो यदुतास्माभिः कण्ठताल्वाद्यभिघातेन भाषास्कन्धेषु व्यक्तोऽस्माभिमा॑ह्यो भाषापरिणाम उत्पाद्यते, हस्तादिदेशावच्छिन्नात्मप्रदेशेषु सामग्रीविशेषविरहात् न तैर्व्यक्तचकारादिशब्दपरिणामाधानं संभवति, किन्तु अव्यक्तः शब्दपरिणामस्तु जन्यत एव । अव्यक्तत्वञ्चाऽस्मादृशापेक्षया बोध्यं न तु योगिप्रभृत्यपेक्षया, तेषां तदवबोधसमर्थत्वात् । इत्थमेव ध्यानस्थदशायां कण्ठताल्वाद्यभिघातव्यापाररहितानामपि योगिविशेषाणां कर्णविवरादिदेशावच्छेदेनार्हमादिनादोऽस्माभिरपि ग्राह्यः सम्प्रत्यपि उपलभ्यमान उपपद्यते। अतो मुखविवरादितो भिन्नावयवावच्छेदेनाऽपि भाषापरिणामाधानविशिष्टानामेव भाषाद्रव्यस्कन्धानां परित्यागो व्यवहितयोगिचाक्षुषानुरोधेन नेत्राऽप्राप्यकरित्वमिवाऽवश्यमभ्युपगन्तव्य इति दिक्। भाषकाणामिति । यद्यपि त्रसनाड्यामपि अधोलोकान्ते ऊर्ध्वलोकान्ते च व्याघातात्पञ्चभ्यो दिग्भ्यो भाषाद्रव्याण्यागच्छन्ति तथाऽपि तत्र तेषां ग्राहकस्याऽभावात् षड्दिग्भ्य आगतानि गृह्णातीत्युक्तमिति ध्येयम् । __ अलापकश्चेति । स चैवं तत्र वर्तते- 'ताइं किं पुट्ठाइं गेण्हति अपुट्ठाइं गेण्हति?, गो.! पुट्ठाइं गेण्हति नो अपुट्ठाई गेण्हति, जाइं भंते! पुट्ठाइं गेहति ताइं किं ओगाढाइं गेण्हति अणोगाढाइं गेण्हति?, गो.! ओगाढाइं गेण्हति नो अणोगाढाइं गेण्हति, जाइं भंते! ओगाढाइं गेण्हति ताइँ किं अणंतरोगाढाइं गेण्हति परंपरोगाढाइं गेण्हति?, गो.! अणतरोगाढाइं गिण्हति नो परंपरोगाढाइं गेण्हति जाइं अणंतरोगाढाइं गेण्हति ताइं भंते! किं अणूइं गेण्हति बायराइँ गेण्हति?, गो.! अणूइंपि गेण्हति बायराइंपि गेण्हति, जाइं भंते! अणूइं गेण्हति ताई किं उड्ढे गेण्हति अधे गेण्हति तिरियं गेण्हति?, गो.! उड्डंपि गेण्हति अधेवि गेण्हति तिरियंपि गेण्हति, जाइं भंते! उड्डपि गेण्हति अधेवि गेण्हनि तिरियंपि गेण्हति ताइँ किं आदि गेण्हति मज्झे गेण्हति पज्जवसाणे गेण्हति?, गो.! आदिपि गेण्हति मज्जेवि गेण्हति पज्जवसाणेवि गेण्हति, जाइं भंते! आदिपि गिण्हति मज्झेवि गेण्हति पज्जवसाणेवि गिण्हति ताई किं सविसए गिण्हति अविसए गिण्हति?, गो.! सविसए गेण्हति नो अविसए गेण्हति, जाइं भंते! सविसए गेण्हति ताई किं आणुपुलिं गेण्हति अणाणुपुलिं गेण्हति?, गो.! आणुपुव्विं गेण्हति, नो अणाणुपुव्विं गेण्हति, जाइं भंते! आणुपुव्विं गेण्हति ताई किं तिदिसिं गेण्हति जाव छद्दिसिं गेण्हति?, गो.! नियमा छद्दिसिं गेण्हति, "पुट्ठोगाढअणंतर अणु य तह बायरे य उड्ढमहे । आदिविसयाणपुट्विं णियमा तह छद्दिसिं चेव ।।१।।" (सूत्रं १६८) तद्वत्तिश्चैवं- 'ताई भंते! किं पुट्ठाई इत्यादि। तानि भदन्त! किं स्पृष्टानि = आत्मप्रदेशसंस्पृष्टानि गृह्णाति उताऽस्पृष्टानि? भगवानाह गौतम! स्पृष्टानि = आत्मप्रदेशः सह संस्पर्शमागतानि गृह्णाति नास्पृष्टानि, इहात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाह-क्षेत्राबहिरपि सम्भवति ततः प्रश्नयति-'जाइं भंते!' इत्यादि, अवगाढानि-आत्मप्रदेशैः सह एकक्षेत्रावस्थितानि गृहणाति न परम्परावगाढानि, किसी दिशा में व्याघात का संभव नहीं है। अतः छ दिशाओं में से आये हुए ही भाषाद्रव्यों का जीव ग्रहण करता है तीन, चार या पांच दिशा में से आये हुए भाषाद्रव्यों को नहीं, क्योंकि जहाँ तीन, चार या पांच दिशाओं में से भाषाद्रव्य आते हैं, वहाँ कोई उसका ग्राहक-वक्ता ही नहीं है। इस विषय में अधिक जिज्ञासु को प्रज्ञापना नामक उपांग को देखने की विवरणकार सूचना करते हैं।९। १ मुद्रितप्रतौ तु 'षड्दिग्गतानामेव' इति पाठः ।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy