SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६४ भाषारहस्यप्रकरणे - स्त.४. गा.७७ ० महाप्रभुलालगोस्वामिमतनिरास: ० "सा होइ अणभिग्गहिया, जत्थ अणेगेसु पुट्ठकज्जेसु। एगयराणवहारणमहवा डित्याइयं वयणं । ७७।। यत्र = यस्यां, अनेकेषु पृष्टकार्येषु मध्ये एकतरस्य अनवधारणं = अनिश्चयो भवति। एतावत्सु कार्येषु मध्ये किं करोमि? इति वचनत्वमिच्छानुलोमलक्षणं फलितम् । कश्चिदित्यनेनाऽस्वरसः प्रदर्शितः। तद्बीजं तु विशेषणविशेष्यभावे विनिगमनाविरहेण गौरवात् घटकज्ञानस्य घटितज्ञानहेतुत्वेन लक्षणघटकभेदप्रतियोगिविध्याद्यज्ञाने सति तद्घटितेच्छानुलोमत्वाज्ञानप्रसङ्गाच्चेति। . इदं तु ध्येयम् - ज्ञापयिता प्रार्थयिता च स्वेष्टसाधनत्वस्य प्रतिसन्धानं कृत्वा आज्ञां प्रार्थनां वा करोति। यं प्रति आज्ञां प्रार्थनां वा करोति तस्य आज्ञाप्यस्य प्रार्थनीयस्य वा पुरुषस्य इष्टसाधनत्वस्य प्रतिसन्धानं कृत्वा आज्ञां प्रार्थनां वा न करोति। यथा 'घटमानये'त्यत्र स्वामी स्वकल्याणमनुसन्धायैव भृत्यमाज्ञापयति। सम्भवति आज्ञापलननेन भृतस्यापि इष्टसाधनत्वं तथापि आज्ञा भृतस्य नैवेष्टसाधनतां प्रतिपादयति। प्रमाणान्तरेणैव आज्ञापालकस्य स्वेष्टसाधनत्वं ज्ञायते। प्रार्थनायामपि प्रार्थयितुरेवेष्टसाधनत्वं प्रतीयते। प्रार्थनीयपुरुषस्य कल्याणं प्रति लक्ष्यं कृत्वा प्रार्थना न प्रयुज्यते यथा 'मह्यं गां देही'त्यत्र प्रार्थनायां प्रार्थनीयस्येष्टसाधनत्वप्रतिसन्धानं नास्ति । प्रार्थयिता स्वेष्टस्य सिध्यर्थमेव प्रार्थनां करोति स्थलविशेषे च प्रार्थनायामपि प्रार्थनीयस्येष्टसाधनत्वप्रतिसन्धानं वर्तत एव । आज्ञापन्यपरपर्यायाया आज्ञाया याचन्यपराभिधानायाः च प्रार्थनाया विध्युपदेशो भिन्नः। विध्युपदेशे विध्युपदेष्टुरिष्टसाधनता न प्रतीयन्ते किन्तुपदेश्यपुरुषस्यैवेष्टसाधनता प्रतीयते यथा 'ज्वरितः पथ्यमश्नीयादि'ति विध्युपदेशः ज्वरग्रस्तस्य पुरुषस्यैवेष्टसाधनत्वादेः प्रतिपादनं करोति न तूपदेष्टुरिष्टसाधनत्वादेः । यत्तु 'उपदेष्टा स्वेष्टमभिसन्धाय नैवोपदिशति, अपि तूपदेश्यपुरुषस्येष्टसाधनताया एव प्रतिसन्धानं कृत्वोपदेशं करोती ति महाप्रभुलालगोस्वामिनोक्तम्, तदसत् कर्मनिर्जरादिस्वेष्टसाधनतामभिसन्धायाऽप्युपदेशस्य सम्भवात् तीर्थकराद्युपदेशेऽव्याप्तेश्च । आज्ञाभङ्गे आज्ञाप्यस्यानिष्टप्राप्तिर्भवति, प्रार्थनाभङ्गे प्रार्थयितुः सकाशात् प्रार्थनीयस्यानिष्टप्राप्तिर्न जायते विध्युपदेशापालने चोपदेष्टुः सकाशादुपदिष्टस्यानिष्टलाभः न सजायत इत्यासामपरं भेदकारणं । इच्छानुलोमायमनुज्ञानर्थान्तरायामनुज्ञाता स्वेष्टसाधनत्वं प्रतिसन्धायानुज्ञां नैव करोति किन्त्वनुज्ञेयपुरुषस्यैवेष्टसाधनत्वादिकमवगत्यानुज्ञां करोति। विध्युपदेशाऽनुज्ञयोश्चैव एव भेदो यत् अप्रवृत्तं पुरुष प्रवर्तयति विध्युपदेशेनोपदेष्टा, स्वेच्छया च प्रवृत्तः सन् पुरुषोऽनुज्ञया प्रवर्तितो भवति। स्थलविशेषे चानुज्ञायामप्यनुज्ञातः पुरुषस्य स्वेष्टसाधनत्वप्रतिसन्धानं वर्त्तत एव । ततश्च स्वेच्छाप्रवृत्तपुरुषप्रवर्तकवचनत्वमिच्छानुलोमत्वमिति व्यापकं निर्दोषमस्मदभिनवोन्मेषशालिप्रज्ञोनीतं लक्षणान्तरं विभावनीयं विवेकिभिः । ७७।। है। प्रज्ञापनी आदि में विध्यादि भेद नहीं रहता है। इस तरह विशेषण अभाव से प्रयुक्त विशिष्ट का अभाव सिद्ध होगा। अतः अतिव्याप्ति दोष का संभव नहीं है। विध्यादि में आदि पद से आज्ञा आदि अभिप्रेत है। इच्छानुलोम भाषा के संबंध में अन्य विद्वान मनीषियों के अभिप्रेय को बता कर विवरणकार ने इच्छानुलोम भाषा के निरूपण को जलांजलि दे दी है। ७६ ।। । अब प्रकरणकार ७७ वी गाथा से असत्यामृषा भाषा के आठवें भेद अनभिग्रहीत भाषा को बताते हैं। गाथार्थ :- अनेक कार्य की पृच्छा करने पर निश्चितरूप से किसी एक कार्य का जिस प्रत्युत्तर से श्रोता को निश्चय न हो वह भाषा अनभिगृहीत भाषा है। अथवा डिस्थादि वचन अनभिगृहीत भाषारूप है७७। * अनभिगृहीत भाषा - ८/४ * विवरणार्थ :- अनेक कार्य की पृच्छा होने पर पूछे गये कार्यों के मध्य में किसी एक कार्य का श्रोता को निश्चय न हो ऐसे १ सा भवति अनभिग्रहीता यत्राऽनेकेषु पृष्टकार्येषु । एकतरानवधारणमथवा डित्यादिकं वचनम् । ७७ ।।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy