SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ धर्भपरीक्षा माग-२| गाथा-४५ ૧૬૩ टी : अथ-"उपशान्तमोहवीतरागस्य मोहनीयसत्ताहेतुकः कदाचिदनाभोगसहकारिकारणवशेन गर्हापरायणजनस्य प्रत्यक्षत्वाद् गर्हणीयो जीवघातो भवत्येव, न तु यथाख्यातचारित्रलोपस्तेन भवति, उत्सूत्रप्रवृत्तेरेव तल्लोपहेतुत्वात् न च प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिः, किन्तु सांपरायिकक्रियाहेतुमोहनीयोदयसहकृतेन प्रतिषिद्धप्रतिषेवणेन सा चोपशान्तवीतरागस्य न भवति, तस्या मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात्, उत्सूत्रप्रवृत्तीर्यापथिकीक्रिययोः सहानवस्थानाद्, यदागमः- “जस्स णं कोहमाणमायालोभा वुच्छिण्णा भवन्ति तस्स णं इरियावहिया किरिया कज्जति । तहेव जाव उस्सुत्तं रीयमाणस्स संपराइआ किरिया कज्जति, से णं उस्सुत्तमेव रीयइ ।।" त्ति । (भग. श. ७ उ. १) तथाऽस्माद् ‘उत्सूत्रप्रवृत्तिप्रतिबन्धिका भावत ईर्यापथिकीक्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या सांपरायिकी क्रिया भवति' इति सम्यक्पलोचनायामुपशान्तवीतरागस्य नोत्सूत्रप्रवृत्तिर्न वा यथाख्यातचारित्रहानिः" इति चेत् ? । न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धप्रतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यातचारित्रस्य निर्ग्रन्थत्वस्य च विलोपप्रसङ्गस्य वज्रलेपत्वात्, “परिहारविसुद्धियसंजए पुच्छा, गो० ! णो पडिसेवए होज्जा अपडिसेवए होज्जा । एवं जाव अहक्खायसंजए" (उ. ६) “कसायकुसीले णं पुच्छा, गो. णो पडिसेवए होज्जा, अपडिसेवए होज्जा, एवं णिग्गंथे वि, एवं सिणाए वि ।।" (भ. श. २५ उ. ७) इत्याद्यागमेनप्रतिषिद्धप्रतिषेवणस्योपरितनचारित्रनिर्ग्रन्थत्रयविरोधिताप्रतिपादनात् । “प्रति-संयमप्रतिकूलार्थस्य संज्वलनकषायोदयात् सेवकः प्रतिषेवकः" इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिषेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः अनाभोगजद्रव्यहिंसायाः प्रतिषिद्धप्रतिषेवणरूपत्वे उपशान्तमोहवृत्तित्वे च न बाधकमिति चेत् ? न, प्रतिषेवापदविषयविभागेऽनाभोगजप्रतिषेवाया अपि परिगणनाद् । यदागमः (ठा. ७३३) “दसविहा पडिसेवणा पण्णत्ता, तंजहा - दप्प १ प्पमाय २ ऽणाभोगे ३ आउरे ४ आवईइ(सु) ५ य । संकिए ६ सहसक्कारे ७ भय ८ प्पदोसा ९ य वीमंस १० त्ति ।।" तस्माद् द्रव्यहिंसायाः प्रतिषेवणारूपत्वाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्याद्, इत्यप्रतिषेवित्वव्याप्ययथाख्यातचारित्रनिर्ग्रन्थत्वयोस्तत्र का प्रत्याशा ? मोहोदयविशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वीतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन्, मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रतिषेवणाभेदस्य क्वापि प्रवचनेऽश्रुतत्वात्, प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकाद्युपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेवित्वाभिधानाद् मोहोदयमात्रमपि न प्रतिषेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy