________________
૧૦૪
धर्मपरीक्षा माग-१ | गाथा-6
नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैर्मोहादिभिर्व्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु, एवं तावद् यावद् भावितोऽतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्तान् । ततश्चार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्वापि कुलदोषेण, क्वचिज्जात्यन्धबधिरखञ्जत्वादिवैरूप्येण, क्वापि कुष्ठादिरोगैः, क्वचिदल्पायुष्कत्वेन, एवमनन्तवाराः(रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा भ्रान्तस्तथैव पराङ्मुखो व्यावृत्त्यानन्तपुद्गलपरावर्तानेकेन्द्रियादिषु, ततोऽन्यदा श्रीनिलयनगरे धनतिलकश्रेष्ठिनो जातस्त्वं वैश्रमणनामा पुत्रः, तत्र च 'स्वजनधनभवनयौवनवनितातत्त्वाद्यनित्यमिदमखिलं ज्ञात्वाऽऽपत्त्राणसहं धर्मं शरणं भजत लोकाः' इति वचनश्रवणाज्जाता धर्मकरणबुद्धिः, केवलं साऽपि कुदृष्टिसंभवा महापापबुद्धिरेव परमार्थतः सञ्जाता, तद्वशीकृतेन च स्वयंभूनाम्नस्त्रिदण्डिनः शिष्यत्वं प्रतिपन्नम्, ततस्तदपि मानुषत्वं हारयित्वा व्यावर्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्तानिति । ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वं, परं न निवृत्ताऽसौ कुधर्मबुद्धिः, शुद्धधर्मश्रवणाभावात्, तदभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात्, क्वचिच्छुद्धधर्मश्रवणेऽपि न निवृत्ताऽसौ, शून्यतया तदर्थानवधारणात्, क्वचित्तत्त्वाश्रद्धानेन, ततः कुधर्मबुद्ध्युपदेशाद्धर्मच्छलेन पशुवधादिमहापापानि कृत्वा भ्रान्तस्तथैवानन्तपुद्गलपरावर्त्तानिति ।।'
तथा श्रावकदिनकृत्यवृत्तावप्युक्तं-'इह हि सदैव लोकाकाशप्रतिष्ठितानाद्यपर्यवसितभवचक्राख्यपुरोदरविपरिवर्ती जन्तुरनादिवनस्पतिषु सूक्ष्मनिगोदापरपर्यायेष्वनन्तानन्तपुद्गलपरावर्तान्समकाहारोच्छ्वासनिःश्वासोऽन्तर्मुहूर्त्तान्तर्जन्ममरणादिवेदनाव्रातमनुभवति' इत्यादि । तथा 'एवं च तथाविधभव्यजन्तुरप्यनन्तकालमव्यवहारराशौ स्थित्वा कर्मपरिणामनृपादेशात्तथाविधभवितव्यतानियोगेन व्यवहारराशिप्रवेशत उत्कर्षेण बादरनिगोदपृथिव्यप्तेजोवायुषु प्रत्येकं सप्तति(कोटा)कोटिसागरोपमाणि तिष्ठन्ति । एषा च क्रिया सर्वत्र योज्या, एतेष्वेव सूक्ष्मेष्वसंख्यलोकाकाशप्रदेशसमा उत्सर्पिण्यवसर्पिण्यः' इत्यादि ।
पुष्पमालाबृहद्वृत्तावप्युक्तं-'ननु कथमित्थं मनुष्यजन्म दुर्लभं प्रतिपाद्यते? उच्यते-समाकर्णय कारणम् - अव्ववहारनिगोएसु ताव चिटुंति जंतुणो सव्वे । पढमं अणंतपोग्गलपरिअट्टे थावरत्तेणं ।। तत्तो विणिग्गया वि हु ववहारवणस्सइंमि णिवसंति । कालमणंतपमाणं अणंतकायाइभावेणं ।। तत्तोवि समुव्वट्टा पुढविजलानलसमीरमझमि । अस्संखोसप्पिणिसप्पिणीओ णिवसंति पत्तेयं ।। संखेज्जं पुण कालं वसंति विगलिंदिएसु पत्तेयं । एवं पुणो पुणो वि य भमंति ववहाररासिंमि ।।