________________
धर्मपरीक्षा भाग -१ | गाथा -
सर्वसंसारिणां प्रथममनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावस्थानं, तेभ्यश्च निर्गताः शेषजीवेषूत्पन्नाः पृथिव्यादिव्यवहारयोगात्सांव्यवहारिकाः, ते च यद्यपि कदाचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति परं तत्रापि सांव्यवहारिका एव, व्यवहारपतितत्वात्, ये न कदाचित्तेभ्यो निर्गताः,
अस्थि अनंता जीवा जेहिं ण पत्तो तसाइपरिणामो ।
903
तेवि अणंताणंता णिगोअवासं अणुहवंति ।।
इति (विशेषणवति) वचनात्तत्रैवोत्पत्तिव्ययभाजस्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति । तत्रैवाग्रेऽप्युक्तं - तेरसांवहा जीवा जहा एगे सुहुमणिगोअरूवे असंववहार भए । बारस संववहारिआ ते अ इमे-पुढवीआऊ-तेउ-वाउ- णिगोआ, सुहुमबायरत्तेण दुदु भेआ पत्तेअवणस्सई तसा य ।।' सांव्यवहारिकाऽसांव्यवहारिकत्वेन जीवानां द्वैविध्यं प्राग् दर्शितम् । तत्राऽसांव्यवहारिको राशिरेक एव, सूक्ष्मनिगोदानामेवाऽसांव्यवहारिकत्वात्, सांव्यवहारिकभेदास्तु द्वादश, ते च इमे पृथिव्यादयः पञ्च, सूक्ष्मबादरतया द्विभेदाः, प्रत्येकवनस्पतयः साश्चेति ।।
तथा भवभावनावृत्तावप्युक्तं- 'अणाइमं एस भवे, अणाइमं च जीवे, अणाई अ सामन्त्रेण तस्स नाणावरणाइकम्मसंजोगो, अपज्जवसिओ अभव्वाणं, सपज्जवसिओ उण भव्वाणं, विसेसओ उण मिच्छत्ताविरइपमायकसायजोगेहिं कम्मसंजोगो जायइत्ति । सव्वेसिंपि जीवाणं साईओ चेव, एसो जाओ अकामणिज्जराबालतवोकम्मसम्मत्तनाणविरइगुणेहिं अवस्समेव विहडइत्ति, सव्वेसिं सपज्जवसिओ चेव, तेण य कम्मपोग्गलसंजोअणाणुभावेणं वसंति सव्वेवि पाणिणो पुव्विं ताव अणंताणंतपोग्गलपरिअट्टे अणाइवणस्सइणिगोएस, पीडिज्जंति तत्येगणिगोअसरीरे अणंता, परिणमंति असंखणिगो असमुदयणिप्फण्णगोलयभावेणं, समगमणंता जीवा ऊससंति, समगं णीससंति, समगं आहारेंति, समगं परिणामयंति, समगं उप्पज्जंति, समगं विपज्जन्ति, थीणद्धीमहाणिद्दागाढनाणावरणाइकम्मपोग्गलोदएणं न वेअंति अप्पाणं, न मुणंति परं, न सुणंति सद्दं, न पेच्छंति सरूवं, न अग्घायंति गंध, न बुज्झंति रसं, न विंदंति फासं, न सरंति कयाकयं, मइपुव्वं न चलंति, न फंदंति, ण सीयमणुसरंति, नायवमुवगच्छंति, केवलं तिव्वविसयवेयणाभिभू अमज्जपाणमत्तमुच्छियपुरिसव्व जहुत्तरकालं तेसु वसिऊण कहमवि तहाभव्वत्तभविअव्वयाणिओगेणं किंपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववज्जंति केइ साहारणवणस्सइसु अल्लय-सूरण- गज्जर- वज्जकंदाइरूवेण इत्यादि ।
तथा तत्रैव प्रदेशान्तरे प्रोक्तं ततो बलिनरेन्द्रेणोक्तं 'स्वामिन्! तर्हीदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः ।' ततः केवलिना प्रोक्तं- महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते, केवलं यदि भवतां कुतूहलं तर्हि समाकर्णयत्, संक्षिप्य किंचित्कथ्यते - इतोऽनन्तकालात्परतो भवान् किल चारित्रसैन्यसहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरान्निष्काश्य समानीतो व्यवहारनिगोदेषु, ततो विज्ञाततद्व्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम्, ततः पृथिव्यप्तेजोवायुवनस्पति- द्वित्रिचतुष्पञ्चेन्द्रियतिर्यक्षु
—