SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २८ ज्योतिष्करण्डकम् भवति । तथा सावनो मासः-कर्ममासस्त्रिंशद् रात्रिदिवानि, तथाहि-कर्मसंवत्सरस्त्रीणि शतानि षष्ट्यधिकानि, तेषां द्वादशभिर्भागे हृते भवति यथोक्तं कर्ममासपरिमाणं, तथा चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, तथाहि-चान्द्रसंवत्सरस्त्रीण्यहोरात्रशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य, तत्र त्रयाणां शतानां चतुष्पञ्चाशदधिकानां द्वादशभिर्भागो हियते, लब्धा एकोनत्रिंशदहोरात्राः, शेषास्तिष्ठन्ति षडहोरात्राः, ते द्वाषाष्टिभागकरणार्थं द्वापष्ट्या गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि, येऽपि च द्वादश द्वाषष्ठिभागा उपरितना स्तेऽपि तत्र प्रक्षिप्यन्ते, जातानि त्रीणिशतानि चतुरशीत्यधिकानि तेषां द्वादशभिर्भागे हृते लब्धा द्वात्रिंशद् द्वाषष्टिभागाः, एतावच्चन्द्रमासपरिमाणं ॥ ३७ ॥ नक्षत्रमासः सप्तविंशतिरहोरात्र एकविंशतिश्च सप्तषष्टिभागा अहोरात्रस्य, नक्षत्रसंवत्सरे ह्यहोरात्रास्त्रीणि शतानि सप्तविंशत्यधिकानि एकपञ्चाशच्च सप्तष्टिभागा अहोरात्रस्य, ततस्त्रयाणां शतानां सप्तविंशत्यधिकानां द्वादशभिर्भागो हियते, लब्धाः सप्तविंशतिरहोरात्राः, शेषास्त्रयस्तिष्ठन्ति, तेऽपि सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, येऽपि चोपरितना एकपञ्चाशत् सप्तषष्टिभागास्तेऽपि च तत्र प्रक्षिप्यन्ते, जाते द्वे शते द्विपञ्चाशदधिकानि २५२, तेषां द्वादशभिर्भागे हृते लब्धा एकविंशतिः सप्तषष्टिभागाः, आगतं यथोक्तं नक्षत्रमासपरिमाणम् । अभिवर्द्धिते मासे एकत्रिंशदहोरात्रा एकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानामहोरात्रस्य, तथाहिअभिवर्द्धितसंवत्सरस्त्रीणि रात्रिंदिवशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, तत्र त्रयाणां शतानां त्र्यशीत्यधिकानां द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्येकादशाहोरात्राः, ते चतुर्विंशत्युत्तरशतभागकरणार्थं चतुर्विंशत्युत्तरेण शतेन गुण्यन्ते, जातानि त्रयोदशशतानि चतुःषष्ट्यधिकानि १३६४, येऽपि चोपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि द्वाभ्यां गुण्यन्ते, जाता अष्टाशीतिः, साऽनन्तरराशौ प्रक्षिप्यते, जातानि चतुर्दश शतानि द्विपञ्चाशदधिकानि १४५२, तेषां द्वादशभिर्भागे हते लब्धमेकविंशत्युत्तरशतं भागानामिति ॥ ३९ ॥ सम्प्रति प्रतिसंवत्सरमहोरात्रप्रमाणमाह ગાથાર્થ :- છએ ઋતુઓના પરિવર્તનથી આ આદિત્ય સંવત્સર થાય છે. કર્મ સંવત્સર આગળ જણાવી દીધો છે, હવે ચંદ્ર સંવત્સર કહીશ. બાર પૂર્ણિમાના પરિવર્તન દ્વારા ચંદ્ર સંવત્સર થાય છે. નક્ષત્રો સાથે ચંદ્રનો યોગ બાર વડે ગુણતાં નક્ષત્ર સંવત્સર થાય છે. તેર ચંદ્રમાસનો અભિવર્ધિત જાણવો, સર્વે વર્ષોના માસોનું પ્રમાણ કહીશ.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy