SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३९२ ज्योतिष्करण्डकम् गतमिति ॥ चतुर्थपर्वजिज्ञासायां चतुष्को ध्रियते, स किल [कृत] युग्मराशिरिति न किमपि तंत्र प्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकशतस्य भागं न प्रयच्छन्ति ततस्तेऽर्धीक्रियन्ते, जाती द्वौ, तौ त्रिंशता गुण्येते, जाता षष्टिः तस्या द्वाषष्ट्या भागो हियते, भागश्च न लभ्यते इति छेद्यच्छेदकराश्योरर्द्धनापवर्तना, जाता त्रिंशद् एक त्रिंशत्, आगतं चतुर्थं पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गच्छतीति । सम्प्रति मूलटीकोपदर्शितमुदाहरणमुपदर्श्यते-त्र्यशीतितमं पर्व चरमेऽहोरात्रे कतिषु मुहूर्तेषु गतेषु कतिमुहूर्तभागेषु च समाप्तिं गच्छतीति त्र्यशीतिध्रियते, अत्र चतुभिर्भागे ह्रियमाणे त्रयः शेषा उद्धरन्ति इति वेतौजोराशिस्ततोऽत्रैकत्रिंशत् प्रक्षिप्यन्ते, जातं चतुर्दशोत्तरं शतम् ११४, एतच्चतुविंशत्यधिकस्य शतस्य भागं न प्रयच्छतीत्येतस्यार्द्ध क्रियते, जाता सप्तपञ्चाशत्, सा त्रिंशता गुण्यते, जातानि सप्तदश शतानि दशोत्तराणि १७१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा सप्तविंशतिः, शेषा तिष्ठति षट्त्रिंशत् ३६, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धा अष्टादशैकत्रिंशद्भागाः, आगतं-त्र्यशीतितमं पर्व चरमेऽहोरात्रे सप्तविंशति मुहूर्त्तान् एकस्य च मुहूर्तस्याष्टादशैकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति, चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां चतुर्विंशत्यधिकं शतं ध्रियते, तस्य किल चतुर्भिर्भागे हृते न किमपि शेषमवतिष्ठते इति, कृतयुग्मोऽयं राशिस्ततोऽत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विंशत्यधिकेन शतेन भागो हियते, जातो राशिनिर्लेपः, आगतं परिपूर्णं चरमं दिनं भुक्त्वा चतुर्विंशत्यधिकशततमं पर्व समाप्तिं गतमिति ॥ ३५९॥ सम्प्रति प्रस्तुतप्राभृतोपसंहारमाह अवमासपुण्णमासी एवं विविहा मए समक्ख्याया । 'एवम्' उक्तेन प्रकारेणामावास्या पौर्णमासी च विविधा-अनेकप्रकारा, तद्यथाचन्द्रनक्षत्रपरिज्ञानपुरःसरा सूर्यनक्षत्रपरिज्ञानपुरःसरा चरमदिवसमुहूर्तमुहूर्तभागपरिज्ञानपुरःसरा च, मया समाऽऽख्याता ॥ ॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां नक्षत्रयोगममावास्यापौर्णमासीप्रतिपादमेकोनविंशतितमं प्राभृतं समाप्तम् ॥ આ યુવરાશિની ઉત્પત્તિમાં ઉપાયો કહ્યા હવે, કયું પર્વ ચરમ દિવસે કેટલા મુહૂર્ત પસાર થતા સમાપ્ત થાય છે? એ વિષયનું કરણ બતાવે છે. ગાથાર્થ : પર્વ રાશિને ૪થી ભાગતાં શેષ રહે તો કલ્યોજ કહેવાય છે, બે શેષ રહે તો દ્વાપર યુગ્મ, ત્રણ રહે તો તેત્રીજા અને ચાર શેષ રહે તો કૃતયુગ્મ કહેવાય છે.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy