SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग ३९१ 'पर्वणि' पर्वराशौ चतुर्भिक्ते सति यद्येकः शेषो भवति तदा स राशिः कल्योजो भण्यते, द्वयोः शेषयोर्द्वापरयुग्मः, त्रिषु शेषेषु त्रेतौजः, चतुर्बु शेषेषु कृतयुग्मः ॥ कल्योजोरूपे राशौ त्रिनवतिः प्रक्षेपः-प्रक्षेपणीयो राशिः, द्वापरयुग्मे द्वाषष्टिः, त्रेतौजस्येकत्रिंशत्, कृतयुग्मे नास्ति प्रक्षेपः । एवं प्रक्षिप्तप्रक्षेपाणां पर्वराशीनां सतां चतुर्विंशत्यधिकेन शतेन भागो हियते, यच्छेषमवतिष्ठते तस्य विधिमाह-प्रक्षिप्तयथोक्तप्रक्षेपाणं पर्वराशीनां चतुर्विंशत्यधिकेन शतेन भागे हते यच्छेषमवतिष्ठते तस्याद क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वाषष्ट्या भज्यते, भक्ते च सति यल्लब्धं तान् मुहूर्तान् जानीहि, लब्धशेषं तु मुहूर्तभागान्, तत एवं स्वशिष्येभ्यः प्ररूपयेत्, विवक्षितं पर्व चरमेऽहोरात्रे सूर्योदयात्तावतो मुहूर्तान् तावतश्च मुहूर्तभागानतिक्रम्य परिसमाप्तमिति । एष करणगाथाक्षरार्थः भावना त्वियं-प्रथमं पर्व चरमेऽहोरात्रे कति मुहूर्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते, अयं किल कल्योजोराशिरित्यत्र त्रिनवतिः प्रक्षिप्यते, जाता चतुर्नवतिः, अस्य चतुर्विंशत्यधिकेन शतेन भागो हर्त्तव्यः, स च भागो न लभ्यते, राशेः स्तोकत्वात्, ततो यथासम्भवं करणलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरद्धं क्रियते, जाताः सप्तचत्वारिंशत् ४७, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि दशोत्तराणि १४१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिः मुहूर्ताः २२, शेषा तिष्ठति षट्चत्वारिंशत् ४६, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धास्त्रयोविंशतिरेकत्रिंशद्भागाः, आगतं प्रथमं पर्व चरमेऽहोरात्रे द्वाविंशतिं मुहूर्तान् एकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । द्वितीयपर्वजिज्ञासायां द्विको ध्रियते, स किल द्वापरयुग्मराशिरिति तत्र द्वाषष्टिः प्रक्षिप्यते, जाता चतुःषष्टिः ६४, सा चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति ततस्तस्यार्धं क्रियते, जाता द्वात्रिंशत्, सा त्रिंशता गुण्यते, जातानि नव शतानि षष्ट्यधिकानि ९६०, तेषां द्वाषष्ट्या भागो हियते, लब्धाः, पञ्चदश मुहूर्ताः, पश्चादवतिष्ठते त्रिंशत्, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्त्तना, लब्धाः पञ्चदश एकत्रिंशद्भागाः आगतं द्वितीयं पर्व-चरमेऽहोरात्रे पञ्चदश मुहूर्तान् एकस्य च मुहूर्तस्य पञ्चदशैकत्रिंशद्भागानतिक्रम्य द्वितीयं पर्व समाप्तमिति । तृतीयपर्वजिज्ञासायां त्रिको ध्रियते, स किल त्रेतौजोराशिरिति तत्रैकत्रिंशत् प्रक्षिप्यते, जाता चतुस्त्रिंशत् ३४, सा चतुर्विंशत्यधिकशतस्य भागं न प्रयच्छति, ततस्तस्यार्धं क्रियते, जाताः सप्तदश, ते त्रिंशता गुण्यन्ते, जातानि पञ्च शतानि दशोत्तराणि ५१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा अष्टौ शेषास्तिष्ठन्ति चतुर्दश, ततश्छेद्यच्छेदकराश्योरर्धेनापवर्तना, लब्धाः सप्तैकत्रिंशद्भागाः, आगतं तृतीयं पर्व चरमेऽहोरात्रेऽष्टौ मुहूर्तान् एकस्य च मुहूर्त्तस्य सप्तैकत्रिंशद्भागानतिक्रम्य समाप्तिं
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy