________________
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
३७३ चतुर्विंशतितमस्य विष्वग्देवतोपलक्षिता उत्तराषाढाः २४, पंचविंशतितमस्य पुष्यः २५, षड्विंशतितमस्य धनिष्ठा २६, सप्तविंशतितमस्य भगो-भगदेवतोपलक्षिता पूर्वफाल्गुनी २७, अष्टाविंशतितमस्याजः-अजदेवतोपलक्षिताः पूर्वभाद्रपदाः २८, एकोनत्रिंशत्तमस्यार्यमाअर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः २९, त्रिंशत्तमस्य पूषा-पूषदेवताका रेवती ३०, एकत्रिंशत्तमस्य स्वातिः ३१, द्वात्रिंशत्तमस्याग्निः अग्निदेवतोपलक्षिताः कृत्तिकाः ३२, त्रयस्त्रिंशत्तमस्य मित्रदेवा-मित्रनामा देवो यस्यासौ तथा, अनुराधा इत्यर्थः ३३, चतुस्त्रिंशत्तमस्य रोहिणी ३४, पंचत्रिंशत्तमस्य पूर्वाषाढाः ३५, षट्त्रिंशत्तमस्य पुनर्वसुः ३६, सप्तत्रिंशत्तमस्य विष्वग्देवाः, उत्तराषाढा इत्यर्थः ३७, अष्टात्रिंशत्तमस्याहिः-अहिदेवतोपलक्षिता अश्लेषा ३८, एकोनचत्वारिंशत्तमस्य वसुः-वसुदेवोपलक्षिता धनिष्ठा ३९, चत्वारिंशत्तमस्य भगःभगदेवोपलक्षिताः पूर्वफाल्गुन्यः ४०, एकचत्वारिंशत्तमस्याभिवृद्धि:- अभिवृद्धिकनामदेवोपलक्षिता उत्तरभाद्रपदाः ४१, द्वाचत्वरिंशत्तमस्य हस्तः ४२, त्रिचत्वारिंशत्तमस्याश्व:अश्वदेवाऽश्विनी ४३, चतुश्चत्वारिंशत्तमस्य विशाखा ४४, पंचचत्वारिंशत्तमस्य कृत्तिकाः ४५, षट्चत्वारिंशत्तमस्य ज्येष्ठा ४६, सप्तचत्वारिंशत्तमस्य सोमः-सोमदेवोपलक्षितं मृगशिरोनक्षत्रम् ४७, अष्टचत्वारिंशत्तमस्यायुः-आयुर्देवाः पूर्वाषाढाः ४८, एकोनपंचाशत्तमस्य रविःरविनामकदेवोपलक्षितं पुनर्वसुनक्षत्रं ४९, पंचाशत्तमस्य श्रवणः ५०, एकपंचाशत्तमस्य पितापितृदेवा मघाः ५१, द्विपंचाशत्तमस्य वरुणो-वरुणदेवोपलक्षितं शतभिषग्नक्षत्रं ५२, त्रिपंचाशत्तमस्य भगो-भगदेवा उत्तराफाल्गुन्यः ५३, चतुष्पंचशत्तमस्याभिवृद्धिः-अभिवृद्धिदेवा उत्तरभद्रपदाः ५४, पंचपंचाशत्तमस्य चित्राः ५५, षट्पंचाशत्तमस्याश्व:-अश्वदेवाऽश्विनी ५६, सप्तपंचाशत्तमस्य विशाखाः ५७, अष्टपंचाशत्तमस्याग्नि:-अग्निदेवोपलक्षिताः कृत्तिकाः ५८, एकोनषष्टितमस्य मूलः ५९, षष्टितमस्यार्दा ६० एकषष्टितमस्य विष्वक्, विष्वग्देवा उत्तराषाढाः ६१ द्वाषष्टितमस्य पुष्यः ६२, एतदुपंसहारमाह- 'एए' त्यादि, एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वाषष्टिसंख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि ॥ एवं प्रागुक्तकरणवशाधुगस्योत्तरार्द्धऽपि क्रमेण द्वाषष्टिसंख्येषु पर्वस्ववगन्तव्यानि ॥ ३४०-२ ॥ सम्प्रति कस्मिन् सूर्यमण्डले कि पर्व समाप्तिं गच्छति ? इति निरूपणार्थं करणमाह
ગાથાર્થઃ સર્પ ૧ ઘનિષ્ઠા ર અર્યમાં ૩ અભિવૃદ્ધિ ૪ ચિત્રા ૫ અશ્વ ૬ ઈન્દ્રાગ્નિ ૭ રોહિણી ૮ જ્યેષ્ઠા ૯ મૃગશિર ૧૦ વિશ્વક્ ૧૧ અદિતિ ૧૨ શ્રવણ ૧૩ પિતૃદેવા
१. सूर्यप्रतक्ष्यनुसारं (पत्र १६०-२) अत्र 'पूर्वफाल्गुन्यः' पाठः आवश्यकः गणितानुसारमुपरोक्तः पाठः समीयीनः इति पु.प्र. पार्श्वभागे ॥