________________
अधिकार सोळमो - व्यतिपात
३१३
सप्तत्यधिकानि १०६७५, छेदराशिर्द्वादशकलक्षणः सप्तषष्ट्या गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि ८०४, अस्य राशेश्च प्राक्तनैः पंचभिः शतैरष्टाविंशत्यधिकैः पुष्यः शुद्धः, स्थितानि पश्चाद्दश सहस्राणि शतमेकं सप्तचत्वारिंशदधिकं १०१४७, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागहरणं, लब्धा द्वादश १२, शेषाणि तिष्ठन्ति चत्वारि शतानि नवनवत्यधिकानि ४९९, द्वादशभिश्चाश्लेषादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, परं ज्येष्ठानक्षत्रमर्द्धक्षेत्रमिति तच्चतुर्भिः शतैर्व्युत्तरैः शुद्धयति, शेषाणि चत्वारि शतानि द्व्युत्तराणि तिष्ठन्ति तान्युद्धरितराशौ प्रक्षिप्यन्ते, जातानि नव शतान्येकोत्तराणि ९०१, आगतमुत्तराषाढानक्षत्रस्य लग्नप्रवर्त्तकस्य चतुरुत्तराष्टशतभागानां नवसु शतेष्वेकोत्तरेषु गतेषु मकरलग्ने प्रथमो व्यतीपातोऽभवदिति । तथा यदि द्वासप्ततिसंख्यैर्व्यतीपातैरष्टादश शतानि पंचत्रिंशदधिकानि लग्नपर्यायाणां भवन्ति ततः पंचभिर्व्यतीपातैः किं भवति ? राशित्रयस्थापना ७२-१८३५ -५ अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्येकनवतिशतानि पंचसप्तत्यधिकानि ९१७५, तेषामाद्येन राशिना द्वासप्ततिलक्षणेन भागो हियते, लब्धं सप्तविंशत्यधिकं लग्नपर्यायाणां शतं, शेषा- स्तिष्ठन्त्येकत्रिंशत् तां नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योः षट्केनापवर्त्तना तत्र जातो गुणकारराशिस्त्रीणि शतानि पंचोत्तराणि ३०५, छेदराशिर्द्वादश, गुणकारराशिना चैकत्रिंशद् गुण्यते, जातानि चतुर्नवतिशतानि पंचपंचाशदधिकानि ९४५५, एतेभ्यश्च पंचभिः शतैरष्टाविंशत्यधिकैः पुष्यः शुद्धः स्थितानि पश्चान्नवाशीतिशतानि सप्तविंशत्यधिकानि ८९२७, छेदराशिना च द्वादशकलक्षणेन सप्तषष्टिर्गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि, तैर्भागो ह्रियते, लब्धा एकादश, पश्चात्तिष्ठन्ति त्र्यशीतिः, एकादशभिश्चाश्लेषादिषु मूलपर्यन्तानि शुद्धानि, नवरं ज्येष्ठानक्षत्रमर्धक्षेत्रमिति चतुर्भिः शतैर्व्युत्तरैः शुद्धमिति चत्वारि शतानि द्व्युत्तराणि शेषाणि तिष्ठन्ति तान्यंशराशौ प्रक्षिप्यन्ते जातानि चत्वारि शतानि पंचाशीत्यधिकानि ४८५, तत आगतमश्लेषादिषु मूलपर्यंतेष्वेकादशसु नक्षत्रेषु गतेषु पूर्वाषाढानक्षत्रस्य चतुरुत्तराष्टशतभागानां चतुर्षु शतेषु पंचाशीत्यधिकेषु गतेषु धनलग्ने पंचमो व्यतीपातो गत इति, एवं सर्वेष्वपि व्यतीपातेषु लग्नानि परिभावनीयानि ॥ २९२-२९३ ॥ ॥ इति श्रीमलयगिरिविरिचितायां ज्योतिष्करकण्डकटीकायां व्यतीपातप्रतिपादकं षोडशं प्राभृतं समाप्तम् ॥