SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् ३१२ भागे हृते लब्धाः सार्द्धाः षड् मुहूर्त्ताः अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति तद्रता अहोरात्रा एकविंशतिश्च मुहूर्त्ता उद्धरन्ति, ते अत्र प्रक्षिप्यन्ते, आगतमश्लेषानक्षत्रमतिक्रम्य मधानक्षत्रस्य त्रिष्वहोरात्रेषु गतेषु चतुर्थस्य चाहोरात्रस्य सार्द्धेषु सप्तविंशतिमुहूर्त्तेषु गतेषु प्रथमो व्यतीपातो गत इति, तथा यदि द्वासप्ततिसंख्यैर्व्यतीपातैः पंच सूर्यनक्षत्रपर्याया लभ्यन्ते ततः पंचभिर्व्यतीपातैः किं लभ्यं ? इति राशित्रयस्थापना ७२-५ -५, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जाता पंचविंशति: २५, तस्या आद्येन राशिना भागहरणं, सा च स्तोकत्वाद् भागं न प्रयच्छति ततो नक्षत्रानयनार्थमेनामष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति छेदराशिगुणकारराश्योः षट्केनापवर्त्तना, जातो गुणकारराशिस्त्रीणि शतानि पंचोत्तराणि ३०५, छेदराशिर्द्वादशप्रमाणः १२, गुणकारराशिना च पंचविंशतेर्गुणने जातान षट्सप्ततिः शतानि पंचविंशत्यधिकानि ७६२५, छेदराशिनाऽपि च द्वादशलक्षणेन सप्तषष्टिर्गुण्यते, जातान्यष्टौ चतुरुत्तराणि ८०४, पुष्यस्य च सप्तषष्टिभागाश्चतुश्चत्वारिंशत्, सा द्वादशभिर्गुण्यते, जातानि पंच शतानि अष्टाविंशत्यधिकानि तानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चात् सप्ततिशतानि सप्तनवत्यधिकानि ७०९७, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागहरणं, लब्धान्यष्टौ नक्षत्राणि, शेषाणि तिष्ठन्ति षट् शतानि पंचषष्ट्याधिकानि ६६५, एतानि नक्षत्रभागं न प्रयच्छन्ति ततः सप्तषष्टिभागानयनार्थं छेदराशिर्मूल एव द्वादशप्रमाणः परं पंचभिः सप्तषष्टिभागैरहोरात्रा लभ्यन्त इति पंचभिर्गुण्यते, जाता षष्टिस्तया भागो हियते लब्धा एकादशाहारोत्राः, शेषास्तिष्ठन्ति पंच, ते मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातं सार्द्धशतं, तस्य षष्ट्या भागे हृते लब्धौ द्वौ साद्ध मुहूर्ती, यानि च पूर्वलब्धान्यष्टौ नक्षत्राणि तान्यश्लेषादीनि विशाखापर्यन्तानि द्रष्टव्यानि तत आगतमनुराधानक्षत्रप्रविष्टस्य सूर्यस्य एकादशसु दिवसेषु गतेषु द्वादशस्य च दिवसस्य द्वयोः सार्द्धयोर्मुहूर्त्तयोर्गतयोः पंचमो व्यतीपातो गत इति, एवं सर्वेष्वपि व्यतीपातेषु सूर्यनक्षत्राणि परिभावनीयानि ॥ सम्प्रति लग्नपरिज्ञानार्थमुपक्रम्यते - यदि द्वासप्ततिसंख्यैर्व्यतीपातैरष्टादश शतानि पंचत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्ते ततः प्रथमे व्यतीपाते किं लभ्यते ? राशित्रयस्थापना ७२-१८३५-१, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, स च तावानेव भवति, तत आद्येन राशिना द्वासप्ततिलक्षणेन भागहरणं, लब्धाः पंचविंशतिः लग्नपर्यायाः, शेषास्तिष्ठन्ति पंचत्रिंशत्, एनां नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति छेदराशिगुणकारराश्योः षट्केनापवर्त्तना, ततो जातश्छेदराशिर्द्वादशकरूपो गुणकारराशिस्त्रीणि शतानि पंचोत्तराणि ३०५, तेन पंचत्रिंशद् गुण्यते, जातानि दश सहस्राणि षट् शतानि पंच
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy