SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् ३०७ अंशो वृध्या. ૩૬૭ છેદરાશિ ૩૬૭થી ભાગ કરવો એટલે ૫૯ મુહૂર્ત આવ્યા ઉ૫૨ આટલા કાળે નક્ષત્ર પોતાના મંડળને ભ્રમણ દ્વારા પૂરે છે. ॥ ૨૫૫ ॥ હવે મંડળે-મંડળે પ્રતિમુહૂર્ત ગતિ પરિમાણ બતાવે છે. एएण उ भइयव्वो मंडलरासी हविज्ज जं लद्धं । साहोइ मुहुत्तगई रिक्खाणं मंडले नियये ॥ २५६ ॥ २५४ 'एतेन' अनन्तरोदितेन मण्डलपरिसमाप्तिकालेन 'मण्डलराशिः' मण्डलपरिरयराशिर्भक्तव्यः, भक्ते च तस्मिन् यद् भवति लब्धं सा नक्षत्राणामात्मीये आत्मीये मण्डले मुहूर्त्तगतिपरिमाणं, तत्र मण्डलपरिसमाप्तिकाल एकोनषष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिशतच्छेदकृतानि त्रीणि शतानि सप्तोत्तराण्यंशानां ततः सवर्णनार्थं मुहूर्ता अप्येकोनषष्टिसंख्यास्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यन्ते, गुणयित्वा चोपरितना अंशाः सप्तोत्तरत्रिशतसंख्याः प्रक्षिप्यन्ते, जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकाि २१९६०, सर्वाभ्यन्तरे च मण्डले परिरयपरिमाणमिदं त्रीणि योजनशतसहस्राणि पंचदश सहस्राणि नवाशीत्यधिकानि ३१५०८९, इह छेदराशिर्मुहूर्तांशराशिरूपस्ततः परिरयपरिमाणमपि त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, जाता एकादश कोटयः षट्पंचाशच्छतसहस्राणि सप्तत्रिंशत्सहस्राणि षट् शतानि त्रिषष्ट्यधिकानि ११५६३७६६३, तेषामेकविंशतिसहस्त्रैर्नवभिः शतैः षष्ट्यधिकैर्भागो हियते, लब्धानि पंच योजनसहस्राणि द्वे शते पंचषष्ट्यधिके ५२६५, अंशा अष्टादश सहस्राणि द्वे शते त्रिषष्ट्यधिके १८२६३/२१९६०, एतावत्प्रमाणा प्रतिमुहूर्त्तं सर्वाभ्यन्तरे मण्डले वर्त्तमानानामभिजिदादीनां द्वादशानां नक्षत्राणां गतिः, एवं शेषेष्वपि नक्षत्रमण्डलेषु परिरयपरिमाणं परिभाव्य प्रतिमुहूर्तं गतिपरिमाणमवसातव्यं, परिरयपरिमाणं कथं परिभाव्यमिति चेद् उच्यते, चन्द्रमण्डलानुसारतः, तथाहिसर्वाभ्यन्तरे चन्द्रमण्डले प्रथमं नक्षत्रमण्डलं १, तृतीये चन्द्रमण्डले द्वितीयं नक्षत्रमण्डलं २ षष्ठे चन्द्रमण्डले तृतीयं नक्षत्रमण्डलं ३, सप्तमे चन्द्रमण्डले चतुर्थं नक्षत्रमण्डलम् ४, अष्ट चन्द्रमण्डले पंचमं नक्षत्रमण्डलं ५ दशमे चन्द्रमण्डले षष्ठं नक्षत्रमण्डलम् ६, एकादशे चन्द्रमण्डले सप्तमं नक्षत्रमण्डलं ७, पंचदशे चन्द्रमण्डलेऽष्टमं नक्षत्रमण्डलं ८ । प्रथम चन्द्रमण्डले द्वादश नक्षत्राणि, तद्यथा - अभिजित् १ श्रवणो २ घनिष्ठा ३ शतभिषक् ४ पूर्वभाद्रपदा ५ उत्तरभाद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ पूर्वाफाल्गुनी १० उत्तर - फाल्गुनी
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy