________________
२३८
ज्योतिष्करण्डकम्
द्वादशसु सप्तषष्टिभागेषु मध्ये प्रक्षिप्यन्ते, जाता एकोनाशीतिः ७९, तस्याः षट्षष्टिः शुद्धाः, स्थिताः शेषास्त्रयोदश, ततो भूयस्त्रिभिः शतैर्नवोत्तरै रोहिणिकान्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चादष्टादश मुहूर्ताः १८, सप्तचत्वारिंशतश्चतुर्विंशतिषष्टिभागाः शुद्धाः, स्थिताः पश्चात्त्रयोविंशतिः, ततो रूपं गृहीतं, स्थिताः पश्चाद् द्वाविंशतिः, रूपं च गृहीत्वा सप्तषष्टिचूर्णिकाभागाः कृताः त्रयोदश पाश्चात्याश्च चूर्णिकाभागा अत्र प्रक्षिप्ताः, जाता अशीतिः, तस्याः षट्षष्टिः शुद्धाः, स्थिताः शेषाश्चतुर्दश १४, तत एतदागतं-युगे स्वरूपतस्तृतीया श्रावणमासे भाविनीनां मध्ये द्वितीयाऽऽवृत्तिश्चन्द्रेण रोहिणिनक्षत्रे साकल्येन भुक्ते मृगशिरसो नक्षत्रस्याष्टादशमुहूर्तेषु द्वाविंशतौ च द्वाषष्टिभागेषु चतुर्दशसु च चूर्णिकाभागेषु भुक्तेषु शेषेषु चैकादशमुहूर्तेष्वेकोनचत्वारिंशति च द्वाषष्टिभागेषु त्रिपंचाशच्चूर्णिकाभागेषु स्थितेषु प्रवर्त्तते, तथा चोक्तं सूर्यप्रज्ञप्तौ[ सू. ७६ - "ता एएसि णं पंचण्हं संवच्छराणं दोच्चं वासिक्किं आउट्टि चंदे केणं नक्खत्तेणं जोएइ ?, ता संठाणाहिं, संठाणाणं एक्कारस मुहत्ता ऊयालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं सत्तट्ठिहा छित्ता तेवण्णं चुण्णियाभागा सेसा" इति, एवं शेषाणामप्यावृत्तीनां चन्द्रस्य नक्षत्रेण योग करणं भावयितव्यं, ग्रन्थगौरवभयात्तु नास्माभिर्भाव्यते, सूर्यप्रज्ञप्तिटीकाऽत्रार्थे निरीक्षितव्या ॥ २४७ ॥ साम्प्रतमावृत्तिषु सूर्यस्य नक्षत्रे योगमभिधित्सुराह
अब्भिंतराहि नितो आइच्चो पुस्सजोगमुवगम्म ।
सव्वा आउट्टीओ करेइ सो सावणे मासे ॥ २४८ ॥ श्रावणे मासे सर्वाभ्यन्तरान्मण्डलान् निष्क्रामन् सूर्यः सर्वा अप्यावृत्ती: करोति पुष्येण सह योगमुपगम्य, नान्यथा, तत्रापि पुष्यस्य त्रयोविंशति सप्तषष्टिभागान् भुक्त्वा, कथमेतदवसीयते ? इति चेद् उच्चते, त्रैराशिकात्, तथाहि-यदि दशभिरयनैः पंच सूर्यकृतान् नक्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभ्यते ?, राशित्रयस्थापना १०-५-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेः पंचकरूपस्य गुणनं, जाताः पंचैव, तेषां दशभिर्भागे लब्धमर्द्ध पर्यायस्य, तत्र नक्षत्रपर्यायः सप्तषष्टिभागरूपः अष्टादश शतानि त्रिंशदधिकानि १८३०, तथाहि-षड् नक्षत्राणि शतभिषक्प्रभृतीन्यर्द्धक्षेत्राणि, ततस्तेषां प्रत्येकं
१. एतेषां पञ्चानां संवत्सराणां द्वितीयां वार्षिकीमावृत्ति चंद्रः केन नक्षत्रेण योजयति ? संस्थानाभिः संस्थानानामेकादश मुहूर्ता एकोनचत्वारिंशति च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं सप्तषष्टियाश्छिना स्त्रिपञ्चाशच्चूर्णिताभागाः शेषाः ।