SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २३७ अधिकार बारमो - आवृत्ति प्रथमाऽऽवृत्तिः प्रवर्तत इति, तथा चोक्तं सूर्यप्रज्ञप्तौ[ सूत्र ७६ - एएसि णं पंचण्हं संवच्छराणं पढमं वासिक्किं आउट्टि चंदे केणं नक्खत्तेणं जोएइ ?, ता अभिइणा, अभीइस्स पढमसमए" इति । तथा कस्मिन्नक्षत्रे चन्द्रेण भुज्यमाने युगे द्वितीया माघमासभाविनीनां मध्ये प्रथमाऽऽवृत्तिः प्रवर्तते ? इति जिज्ञासायां द्विको ध्रियते, स रूपोनः कार्य इति जात एकस्तेन ध्रुवराशिर्गुण्यते, जातस्तदवस्थः, एकेन गुणितं तदेव भवतीति' वचनात्, तत एतस्माद् यथासम्भवं शोधनकानि शोध्यन्ते, ततः पंचभिः शतैरेकोनपंचाशदधिकैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्धानि, शेषास्तिष्ठन्ति चतुर्विंशतिर्मुहूर्ताः, षट्त्रिंशतश्च द्वाषष्टिभागेभ्यश्चतुर्विंशतिद्वाषष्टिभागा अभिजितः सम्बन्धिनः पातिताः, शेषाः स्थिता द्वादश, तेभ्य एकं रूपं गृह्यते, स्थिताः शेषा एकादश, रूपं च गृहीत्वा सप्तषष्टिभागाः क्रियन्ते, कृत्वा च तन्मध्ये ध्रुवराशिगताः षट् सप्तषष्टिभागाः प्रक्षिप्यन्ते, जाता त्रिसप्ततिः ७३,तस्याः षट्षष्टिः सप्तषष्टिभागाः शोधिताः, स्थिताः शेषाः सप्त भागाः, तत इदमागतं-युगे स्वरूपतो द्वितीया माघमासभाविनीनां मध्ये प्रथमाऽऽवृत्तिरुत्तरफाल्गुनीनक्षत्रे साकल्येन भुक्ते हस्तनक्षत्रस्य च चतुर्विशतिमुहूर्तेषु एकादशसु च द्वाषष्टिभागेषु सप्तसु चूर्णिकाभागेषु भुक्तेषु शेषेषु च पंचसु मुहूर्तेषु पंचाशति द्वाषष्टिभागेषु षष्टिसंख्येषु च चूर्णिकाभागेषु स्थितेषु प्रवर्त्तते तथा चोक्तं सूर्यप्रज्ञप्तौ [ सूत्र ७७]- 'एएसि णं पंचण्हं संवच्छराणं पढमं हेमंती आउट्टी केणं नक्खत्तेणं जोएइ ?, ता हत्येणं, हत्थस्स णं पंच मुहूत्ता पण्णासं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छित्ता सट्ठि चुण्णियाभागा सेसा" इति । तथा युगे तृतीया श्रावणमासभाविनीनां मध्ये द्वितीयाऽऽवृत्तिः केन नक्षत्रेण चन्द्रमसो योगः प्रवर्तते ? इति जिज्ञासायां त्रिको ध्रियते, स रूपोनः क्रियते, जातो द्वौ, ताभ्यां ध्रुवराशिगुण्यते, जातान्येकादश शतानि षट्चत्वारिंशदधिकानि ११४६ द्वाषष्टिभागाश्च द्विसप्ततिः ७२ चूर्णिकाभागा द्वादश १२, एतस्मादष्टौ शतान्येकोनविंशत्यधिकानि उत्तराषाढान्तानि शोध्यन्ते, स्थितानि शेषाणि त्रीणि शतानि सप्तविंशत्यधिकानि ३२७, तथा द्वासप्ततेश्चतुर्विंशतिषिष्टिभागाः शोध्यन्ते, स्थिता अष्टचत्वारिंशत्, तत एकरूपं गृह्यते, स्थिताः पश्चात् सप्तचत्वारिंशत् ४७, यच्च रूपं गृहीतं तत् सप्तषष्टिभागीक्रियते, कृत्वा च त पूर्वोक्तेषु १. (छ..) "एतेषां पञ्चानां संवत्सराणां प्रथमं वार्षिकीमावृत्ति चंद्रः केन नक्षत्रेण योजयति ? तामभिजिता, अभिजितः प्रथमसमये"। २. "एतेषां पञ्चानां संवत्सराणां प्रथमां हेमंतीमावृत्ति केन नक्षत्रेण योजयति ? ताम् हस्तेन, हस्तस्य पञ्च मुहर्ताः पञ्चाशच्च"। द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिधाः छिन्त्राः षष्टिश्चर्णिताभागाः शेषाः ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy