SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २१६ ज्योतिष्करण्डकम् છે. આ બધું સર્વાભ્યન્તર મંડળ પરિધિ પરિમાણ રૂપ ૩૧૫૦૮૯માં નાખવું તેથી ૩૧૫૦૮૯ + ૩૧૧૧ + ૧૧૪ + ૧=૩૧૮૩૧૫ યોજનરૂપ સર્વબાહ્ય મંડળનું પિરિધ પરિમાણ થાય છે. આ રીતે મધ્યમ મંડળોમાં પણ નિપુણબુદ્ધિથી ભાવના કરવી. ।।૨૧૯ સર્વાશ્ચંત૨ ચંદ્રમંડળમાં પણ પરિરય પરિમાણ ૩૧૫૦૮૯ છે તથા શેષ મંડળોમાં પ્રતિમંડળ પરિવૃદ્ધિનું પરિમાણ જણાવે છે चंदस्सवि नायव्वा परिरयवुड्डी उ मंडले नियमा । दो चेव जोयणसया तीसा खलु होंति साहीया ॥ २२० ॥ चन्द्रस्यापि मण्डले मण्डले परिरयपरिवृद्धिर्नियमाज्ज्ञाताव्या द्वे योजनशते 'त्रिंशे' त्रिंशदधिके भवतः खलु साधिके किंचित्समधिके, तथाहि - चन्द्रस्य मण्डले मण्डले आयामविष्कम्भवृद्धिर्द्वासप्ततिर्योजनानि एकपंचाशदेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागः तत्र योजनान्येकष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, जातानि द्विनवत्यधिकानि त्रिचत्वारिंशच्छतानि ४३९२, तत उपरितना एकपंचाशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातानि चतुश्चत्वारिंशच्छतानि त्रिचत्वारिंशदधिकानि ४४४३, एतानि सप्तभागकरणार्थं सप्तभिर्गुण्यन्ते, गुणयित्वा चोपरितन एकः सप्तभागः प्रक्षिप्यते, ततो जातान्येकत्रिंशत्यसहस्राणि शतमेकं द्वयुत्तरं ३११०२, अस्य राशेर्वर्गो विधीयते, विहिते च वर्गे दशभिर्गुणितं, ततो जातमिदं नवकः षट्कः सप्तकरित्रकरित्रश्चतुष्कश्चतुष्कः शून्यं चतुष्कः शून्यम् ९६७३३४४०४०, अस्य वर्गमूलानयने लब्धानि अष्टानवतिः सहस्राणि त्रीणि शतानि त्रिपंचाशदधिकानि ९८३५३, शेषमुद्धरति - एकत्रिंशत्सहस्राणि चत्वारि शतानि एकत्रिंशदधिकानि ३१४३१, वर्गमूललब्धस्य तु राशेरेकषष्ट्या सप्तभिर्गुणितया जातानि यानि चत्वारि शतानि सप्तविंशत्यधिकानि तैर्भागो हियते, लब्धे द्वे योजनशते त्रिंशदधिके २३०, शेषमुपरिष्टादुद्वरति त्रिचत्वारिंशं शतं १४३, तत एतदपेक्षया प्राग्वर्गमूलानयनस्थितशेषापेक्षया च साधिके इत्युक्तम्, एतावती चन्द्रसत्के मण्डले मण्डले परिरयपरिवृद्धिरवसेयेति ॥ २२० ॥ ॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां मण्डलविभागप्रतिपादकं दशमं प्राभृतं समाप्तम् ॥ ગાથાર્થ :-ચંદ્રની પરિવૃદ્ધિ પણ પ્રતિમંડળે નિયમા ૨૩૦ યોજન સાધિક જાણવી. ૫૨૨૦૦
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy