SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०३ अधिकार दसमो - मंडल विभाग गुणवीसा चउ, छत्तीस तिन्नि १५ एकारसेव चउर १५ ५। दो दो तेत्तीसट्ठ य नत्थि चउण्हंपि सत्तंसा ॥ २१३ ॥ एकादशस्य चन्द्रमण्डलस्य चतुष्पंचाशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावत्सूर्यमण्डलादभ्यन्तरं प्रविष्टं, एक एकषष्टिभागः एकस्य चैकषष्टिभागस्य सत्काः पंच सप्तभागा इत्येतावन्मानं सूर्यमण्डलसम्मिश्रम्, अत्रार्थे च-'जत्थ न सुज्झइ सोमे' इत्यत्र प्रदेशे भावना कृतैवेति न भूयः क्रियते, तदनुसारेण चोत्तरत्रापि स्वयं भावना भावनीया, एकादशाच्च चन्द्रमण्डलाबहिर्विनिर्गतं सूर्यमण्डलं षट्चत्वारिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ, तत एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तीति द्वादश सूर्यमार्गा लभ्यन्ते, ततः परत एकोनाशीत्या एकषष्टिभागैः एकस्य चैकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं, तच्च द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं 'बायाल पंच' त्ति द्वि द्विचत्वारिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काः पंच सप्तभागाः, शेषं च त्रयोदशैकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सत्कौ द्वौ सप्तभागावित्येतावन्मानं सूर्यमण्डलसम्मिश्र, तस्माच्च द्वादशाच्चन्द्रमण्डलाबहिविनिर्गतं सूर्यमण्डलं चतुस्त्रिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काः पंच सप्तभागास्तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच्च सूर्यमार्गात्परतो नवतिसंख्यैरेकषष्टिभागैरेकस्य चैकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तत्र त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं 'इगतीसेगं ति एकत्रिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागः, शेषं चतुर्विंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागा इत्येतावन्मात्रं सूर्यमण्डलसंमिश्रं, तस्माच्च त्रयोदशाच्चन्द्रमण्डलाद्वहिः सूर्यमण्डलं विनिर्गतं त्रयोविंशतिरेकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागस्तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात्परत एकषष्टिभागानां व्युत्तरेण शतेन एकस्य चैकषष्टिभागस्य सत्कैस्त्रिभिः सप्तभागैश्चतुर्दशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टम्, 'गुणवीसा चउत्ति एकोनविंशतिरेकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, शेषं षट्त्रिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलसंमिश्रं, तस्माच्चतुर्दशाच्चन्द्रमण्डलाबहिर्विनिर्गतं सूर्यमण्डलं एकादश एकषष्टिभागाः एकस्य चैकषष्टिभागस्य
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy