SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०२ ज्योतिष्करण्डकम् सप्तभागैः सूर्यमण्डलं , ततो द्विनवतिसंख्यैकषष्टिभागैश्चतुर्भिश्च एकस्यैवैकषष्टिभागस्य सत्कैः सप्तभागैन्यूँनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं ततः परमस्तीत्यन्येऽपि द्वादश सूर्यमार्गा भवन्तीति तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, त्रयोदशस्य सूर्यमार्गस्य बहिरष्टमाच्च चन्द्रमण्डलादर्वागन्तरं त्रयस्त्रिंशदेकषष्टिभागाः, ततोऽष्टमं चन्द्रमण्डलं, तस्माच्चाष्टमाच्चन्द्रमण्डलात्परतत्रयस्त्रिंशतैकषष्टिभागैः सूर्यमण्डलं, तत एकाशीतिसंख्यैरेकषष्टिभागैरूनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं पुरतो विद्यत इति ततः पुरतोऽन्येऽपि द्वादश सूर्यमार्गाः, ततस्तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गास्त्रयोदशाच्च सूर्यमार्गात्परतो नवमाच्च चन्द्रमण्डलादर्वागन्तरं चतुश्चत्वारिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततः परं नवमं चन्द्रमण्डलं, तस्माच्च नवमाच्चन्द्रमण्डलात्परत एकविंशत्या एकषष्टिभागैरेकस्य चैकषष्टिभागस्य त्रिभिः सप्तभागैः सूर्यमण्डलं, तत एकोनसप्ततिसंख्यैरेकषष्टिभागैरेकस्य चैकषष्टिभागस्य सत्कैस्त्रिभिः सप्तभागैः परिहीनं यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्र चान्ये द्वादश सूर्यमार्गाः, एवं चास्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गास्तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि दशमाच्चन्द्रमण्डलादर्वागन्तरं षट्पंचाशदेक षष्टिभागाः एकस्य चैकषष्टिभागस्यैकः सप्तभागस्ततो दशमं मण्डलं, दशमाच्चन्द्रमण्डलात् परतो नवभिरेकषष्टिभागैः एकस्य च एकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैः सूर्यमण्डलं, ततः सप्तपंचाशता एकषष्टिभागैः एकस्य च एकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैरूनं प्रागुक्तपरिमाणं चन्द्रमण्डलान्तरं, ततो भूयोऽपि द्वादश सूर्यमार्गा लभ्यन्त इति तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, त्रयोदशस्य च सूर्यमार्गस्योपर्येकादशाच्चन्द्रमण्डलादर्वागन्तरं सप्तषष्टिरेक षष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काः पंचभागाः ॥ २१० ॥ तदेवं भावितानि मध्यमानि पंचासाधारणानि मण्डलानि षट्सु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गाः, सम्प्रति सर्वबाह्यानि पंच साधारणानि मण्डलानि चतुषु च सर्वबाह्येषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गान् विभावयिषुराह चउप्पण्ण दुगे गं पण " छायालीसं च दो चेव ॥२११ ॥ बायाल पंच १२ तेरस दुगं च १ चोत्तीस पंचभागा य । इगतीसेगं चउवीस छक्क १३ तेवीस एकं च १ ॥ २१२ ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy