SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् १९८ ततः परं भूयस्तृतीयात् चन्द्रमण्डलादर्वाग् यथोक्तपरिमाणमन्तरं तद्यथा - पंचत्रिंशद् योजनानि त्रिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, एतावति चान्तरे द्वादश सूर्यमार्गा लभ्यन्ते, उपरि च द्वे योजने त्रयश्चैकषष्टिभागाः योजनस्य एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः ततोऽत्र प्रागुक्तद्वितीयस्य चन्द्रमण्डलस्य सत्काः सूर्यमण्डलाद् बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः ते प्रक्षिप्यन्ते, ततो जातास्त्रयोविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्क एकः सप्तभागः, तत इदमायातं - द्वितीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात् परतो योजनद्वयातिक्रमेण सूर्यमण्डलं, तच्च तृतीयाच्चन्द्रमण्डलादर्वागभ्यन्तरं प्रविष्टं त्रयोविंशतिमेकषष्टिभागान् एकं च एकषष्टिभागसत्कं सप्तभागं ँ, ततः शेषाश्चतुर्विंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य षट् सप्तभागाः सूर्यमण्डलस्य तृतीयचन्द्रमण्डलसम्मिश्राः ततस्तृतीयं चन्द्रमण्डलं सूर्यमण्डलाद् बहिर्विनिर्गतमेकत्रिं ૨ शतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं ु, ततो भूयोऽपि यथोक्तं चन्द्रमण्डलान्तरं, तस्मिंश्च, द्वादश सूर्यमार्गा लभ्यंते, द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने त्रय एकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः ततो येऽत्र तृतीयमण्डलसत्काः सूर्यमण्डलाद्बहिर्विनिर्गताश्च एकत्रिंशदेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागस्तऽत्र प्रक्षिप्यन्ते, ततो जाताश्चतुस्त्रिंशदेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सत्काः पंच सप्तभागास्तत इदं वस्तुतत्त्वं जातंतृतीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात्परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं, तच्च चतुर्थाच्चन्द्रमण्लादर्वागभ्यन्तरं प्रविष्टं चतुस्त्रिंशतमेकषष्टिभागान् एकस्य चैकषष्टिभागस्य सत्कान् पंच सप्तभागान्, ततः शेषं सूर्यमण्डलस्य त्रयोदशैकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतत् चतुर्थचन्द्रमण्डलसंमिश्रं े, चतुर्थस्य चन्द्रमण्डलस्य सूर्यमण्डलाद्बहिर्विनिर्गतं द्विचत्वारिंशत् एकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्काः पंच सप्तभागाः ततः पुनरापि यथोदितपरिमाणं चन्द्रमण्डलान्तरं तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने त्रय एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः तत्र ये चतुर्थस्य चन्द्रमण्डलस्य
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy