SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अधिकार दसमो - मंडल विभाग १८१ परिरयपरिमाणं भवति, सर्वाभ्यन्तरानन्तरं च द्वितीयं मण्डलमायामविष्कम्भाभ्यां नवनवतिर्योजनसहस्राणि षट् शतानि पंचचत्वारिंशदधिकानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य ९९६४५, ३५।६१, तथाहि-एकतोऽपि सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशत्संख्याकान् एकषष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितम्, अपरतोऽपि, ततः पंच योजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे परिवर्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरस्य द्वितीयस्य मण्डलस्य परिरयस्त्रीणि शतसहस्राणि पंचदश सहस्राण्येकं शतं सप्तोत्तरं योजनानां ३१५१०७, तथाहि-पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे पंच योजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य परिवर्धन्ते, पंचानां च योजनानां पंचत्रिंशत्संख्यैकषष्टिभागाधिकानां परिरयः सप्तदश योजनानि अष्टात्रिंशच्चैकषष्टिभागा योजनस्य समधिकाः, परं व्यवहारतो विवक्ष्यन्ते परिपूर्णान्यष्टादश योजनानि, तानि पूर्वमण्डलपरिरयराशौ यदाऽधिकत्वेन प्रक्षिप्यन्ते तदा यथोक्तं सूर्यप्रज्ञप्त्यादिसंमतं द्वितीयमण्डलपरिमाणं भवति, तथा सर्वाभ्यन्तरात् मण्डलात् तृतीयमण्डलस्यायामविष्कम्भो नवनवतिसहस्राणि षट् शतान्येकपंचाशदधिकानि नव चैकषष्टिभागा योजनस्य ९९६५१९।६१ परिरयस्त्रीणि शतसहस्राणि पंचदश सहस्राणि एकं च पंचविंशत्याधिकं शतं योजनानां किंचित्समधिकं ३१५१२५, एवं मण्डले मंडल आयामविष्कम्भयोः पंच योजनानि पंचत्रिंशदेकषष्टिभागाधिकानि परिरये अष्टादश योजनानि परिवर्द्धयता तावद्वक्तव्यं यावत्सर्वबाह्यं मण्डलं, तस्मिंश्च सर्वबाह्ये मण्डले एकं योजनशतसहस्रं षट् शतानि षष्ट्यधिकानि १००६६० आयामविष्कम्भाभ्यां परिरयपरिमाणं ॥ १९६ ॥ पुनः साक्षादाह तिन्नेव सयसहस्सा अट्ठारस होति जोयणसहस्सा । तिन्नि सया पन्नासा बाहिरए मंडले रविणो ॥ १९७ ॥ 'रवेः' सूर्यस्य सत्के बाह्ये मण्डले परिरयपरिमाणं योजनानां त्रीणि शतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पंचदशाधिकानि किंचिदूनानि ३१८३१५ ॥ १९७ ॥ तदेवमुक्तं मण्डलपरिरयपरिमाणं, सम्प्रति यानि चन्द्रमसो मण्डलानि सूर्यस्यापि साधारणानि यानि च चन्द्रमस एवासाधारणानि तानि प्रतिपादयति ગાથાર્થ :- સૂર્યના અત્યંતર મંડળનો પરિધિ ૩,૧૫,૦૮૯ યોજન હોય છે.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy