SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६२ ज्योतिष्करण्डकम् षट् शतानि चतुरशीत्यधिकानि योजनानां चतस्त्रः कला इति विदेहविष्कम्भः ३३६८४४।१९, एवं एरावतादीनामपि विष्कम्भो भावनीयः, तद्यथा-पंच योजनशतानि षड्विंशत्यधिकानि षट् कला इत्यैरावतविष्कम्भः ५२६-६।१९ दश शतानि द्विपंचाशदधिकानि योजनानां द्वादश च कला इति शिखरिणि १०५२-१२।१९, पंचाधिकानि योजनानामेक विंशतिः शतानि पंच कलाश्च हैरण्यवतवर्षे २१०५-५।१९ दशाधिकानि द्विचत्वारिंशच्छतानि योजनानां दश च कला इति रुक्मिपर्वते ४२१०-१०।१९, एकविंशत्यधिकानि चतुरशीतिः शतानि योजनानामेकश्चैकोनविंशतिभाग इति विष्कम्भो रम्यकक्षेत्रे ८४२१-१।१९, षोडश सहस्राण्यष्टौ शतानि द्विचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ नीलवति वर्षधरपर्वते १६८४२-२।१९ ॥१७९॥ एतानि भरतादीनि क्षेत्राण्यारोपितचापाकाराणि ततः सम्प्रति जीवानयनार्थं करणमाह ओगाहूणं विक्खंभ मो उ उग्गाहसंगुणं कुज्जा । चउहिं गुणियस्स मूलं मंडलखेत्तस्स सा जीवा ॥ १८० ॥ अवगाहेन-विवक्षितभरतादिक्षेत्रसम्बन्धिना विस्तारेण ऊनं 'विष्कम्भं' जम्बूद्वीपविष्कम्भं कलारूपमेकोनविंशतिलक्षप्रमाणं 'मो य' इति पादपूरेण' अवगाहसंगुणम्' अवगाहो-विवक्षितभरतादिक्षेत्रसम्बन्धी विस्तारो यथोक्तस्वरूपः सम्यग् गुणो-गुणकारो यस्य स तथा तं कुर्यात्, किमुक्तं भवति ?- येनावगाहेन ऊनः कृतस्तेन गुणितं कुर्यात्, तस्य विक्षितावगाहगुणितस्य भूयोऽपि चतुभिर्गुणितस्य यन्मूलं स 'मण्डलक्षेत्रस्य' वृत्तक्षेत्रस्य प्रस्तावादिह जम्बूद्वीपस्य सम्बन्धिनो विवक्षितस्यैकदेशस्य भरतादेरारोपितधनुराकारस्य जीवाप्रत्यंचा भवति, तत्र भरतजीवायामिदं करणं भाव्यते-तत्र भरतस्य विस्तार: पंच योजनशतानि षड्विंशत्यधिकानि षट् कला-एकोनविंशतिभागरूपाः, तत्र पंच शतानि षड्विंशत्यधिकानि कलाकरणार्थमेकोनविंशत्या गुण्यन्ते, गुणयित्वा चोपरितन्यः षट् कलाः प्रक्षिप्यन्ते, जातानि दश सहस्राणि, तैर्जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाण ऊनः क्रियते, जातं शेषमष्टादश लक्षा नवतिः सहस्राणि १८९००००, एतद् यथोक्तपरिमाणेन विस्तारेण १०००० गुण्यते, गुणिते च सति जात एककोऽष्टको नवकः अष्टो शून्यानि १८९०००००००००, एष राशिभूयश्चतुर्भिर्गुण्यते, जाताः सप्तकः पंचकः षट्कोऽष्टौ च १. मूलं सा जीवा वऽत्थ णातव्वा म. वि. संस्करणे । 'मूलं मंडलखेत्तस्स सा जीवा म० । मूलं मंडलखेत्तस्स विक्खंभो' - जे० खं० । मूलं सा जीवा तत्थ णातव्वा - खंटि० ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy