SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अधिकार दसमो - मंडल विभाग १६१ भरतैरावतापेक्षया द्विगुणविष्कम्भौ क्षुल्लहिमवच्छिखरिणौ, ताभ्यामपि द्विगुणविष्कम्भे हैमवतहिरण्यवतवर्षे, ताभ्यामपि द्विगुणविष्कम्भौ महाहिमवद्किमपर्वतौ, ताभ्यामपि हरिवर्षरम्यकवर्षे द्विगुणविष्कम्भे, ततो निषधनीलवन्तौ द्विगुणविष्कम्भौ, ताभ्यामपि द्विगुणविष्कम्भं महाविदेहाभिधं वर्षमिति ॥ १७८ ॥ सम्प्रति नियतभरतादिविष्कम्भप्रतिपादनार्थमुपक्रम्यते-इह भरतक्षेत्रं प्रथममित्येकको भागहारः, क्षुल्लहिमवान् ततो द्विगुणविष्कम्भ इति द्वौ भागहारः, एवं हैमवतवर्षे चत्वारो महाहिमवत्यष्टौ हरिवर्षे षोडश निषधे द्वात्रिंशत्, एते च सर्वेऽप्येकत्र मिलिता जातास्त्रिषष्टिः ६३, एवमुत्तरत ऐरवतादारभ्य भागहाराणां त्रिषष्टिः, उभयमीलने च जातं षड्विशं शतं १२६, महाविदेहक्षेत्रे भागहारश्चतुःषष्टिः, तन्मीलने जातं नवत्यधिकं शतम् १९०, एवं भागहारस्य निष्पत्तिः, ततो यस्मिन् क्षेत्रे विष्कम्भो ज्ञातुमिष्यते तस्मिन् क्षेत्रे यावान् भागहार उपदर्शितस्तावत्प्रमाणेन राशिना जम्बूद्वीपविष्कम्भो गुण्यते, गुणयित्वा च नवत्यधिकेन शतेन भागहारकरणं, तत आगच्छति तस्मिन् क्षेत्रे प्रतिनियतं विष्कम्भपरिमाणमिति, तत्र जम्बूद्वीपस्य विष्कम्भो योजनमेकं लक्षं, तदेकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जातमेकं लक्षं, तस्य नवत्यधिकेन शतेन भागो हियते, लब्धानि योजनानां पंच शतानि षड्विंशत्यधिकानि, शेषस्य राशेश्छेदराशिगतेन शून्येन सहापवर्त्तना क्रियते, लब्धा एकोनविंशतिभागरूपाः षट् कलाः, एतावत्परिमाणो भरतक्षेत्रस्य विष्कम्भः, तथाचाह पंचेव जोयणसया छव्वीसा होति भरहविक्खंभो । छच्चेव य होंति कला एगुणवीसेण छेएण ॥ १७९ ॥ सुगमा ॥ तथा जम्बूद्वीपविष्कम्भो योजनलक्षप्रमाणः क्षुल्लहिमवद्विष्कम्भानयनाय द्विकेन गुण्यते, जाते द्वे लक्षे, तयोर्नवत्यधिकेन शतेन भागो हियते, लब्धानि दश योजनशतानि द्विपंचाशदधिकानि, कलाश्चैकोनविंशतिभागरूपा द्वादश, एतावान् हिमवद्वर्षधरपर्वतस्य विष्कम्भः, तथाचोक्तं- "दस सय बावन्नहिया बारस य कलाउ हिमवन्ते ।" एवं सर्वेष्वपि क्षेत्रेषु यथोक्तं विष्कम्भपरिमाणमानेतव्यं, तत्र हैमवत वर्षे विष्कम्भपरिमाणमेकविंशतिः शतानि पंचाधिकानि पंच कलाः २१०५-५।१९ दशाधिकानि द्विचत्वारिंशच्छतानि दश च कला महाहिमवति ४२१०-१०।१९ एकविंशत्यधिकानि चतुरशीतिशतानि एका च कला हरिवर्षे ८४२१-१।१९, षोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानि द्वे च कले निषधपर्वते १६८४२-२।१९, त्रयस्त्रिंशत्सहस्राणि
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy