SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३८ ज्योतिष्करण्डकम् तेषां सप्तषष्टया भागे हृते लब्धा नव मुहूर्ताः, एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागा इति ॥ १५० ॥ शतभिषग्भरणीआर्द्राअश्लेषास्वातिज्येष्ठानक्षत्राणां प्रत्येकं चन्द्रेण सह योगः पञ्चदश मुहूर्तान् यावदिति, तथाहि-एतेषां प्रत्येकं सप्तषष्टि खण्डीकृतस्याहोरात्रस्य सत्कान् त्रयस्त्रिंशद्भागानेकस्य सप्तषष्टिभागस्यार्द्धं च यावच्चन्द्रेण सह योगः, तत्र त्रिंशद्भागकरणार्थं त्रयस्त्रिंशत् त्रिंशता गुण्यते, जातानि नव शतानि नवत्यधिकानि ९९०, यदपि चार्द्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते, लब्धाः पञ्चदश भागाः, १५, सर्वसङ्कलनया जातं भागानां पञ्चोत्तरं सहस्रं १००५, एतस्य सप्तषष्ट्या भागे हृते लब्धाः पञ्चदश मुहूर्ता इति ॥ १५१ ॥ तिस्त्र उत्तराः, तद्यथा-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा, तथा पुनर्वसुः रोहिणी विशाखा, एतानि षड् नक्षत्राणि चन्द्रेण सह पंचचत्वारिंशन्मुहूर्तसंयोगानि भवन्ति, षण्णामप्येतेषां नक्षत्राणां प्रत्येकं चन्द्रेण सह योगः पंचचत्वारिंशन्मुहूर्त्तान् यावद् भवतीत्यर्थः, तथाहि-एतेषां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भागस्याड़े यावच्चन्द्रेण सह योगः, तत्रैषां भागानां मुहूर्तगतभागकरणार्थं शतं प्रथमतस्त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि ३०००, यदप्येकमद्धं तदपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पंचदश भागाः, ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिस्त्रीणि सहस्राणि पंचदशोत्तराणि ३०१५, एतेषां सप्तषष्ट्या भागो हियते, लब्धाः पंचचत्वारिंशन्मुहूर्ताः ॥ १५२ ॥ 'अवशेषाणि' उक्तव्यतिरिक्तानि श्रवणधनिष्ठापूर्वभद्रपदारेवतीअश्विनीकृत्तिकामृगशिरःपुष्यमघापूर्वफाल्गुनीहस्तचित्रामूलानुराधापूर्वाषाढारूपाणि पंचदशापि नक्षत्राणि प्रत्येकं चन्द्रेण सह योगमधिकृत्य त्रिंशन्मुहूर्तानि, त्रिंशन्मुहूर्तान् यावदेतेषां प्रत्येकं चन्द्रेण सह योगो भवतीत्यर्थः, एवमेष 'चन्द्रे' चन्द्रविषये योगो नक्षत्राणां तीर्थकरगणधरैराख्यातः ॥ १५३ ॥ सम्प्रति वक्ष्यमाणवक्तव्यतोपक्षेपं कुर्वन्नाह આઠમું પ્રાભૃત જણાવ્યું. હવે નવમું નક્ષત્ર યોગ પ્રતિપાદક પ્રાભૃત વર્ણવે છેथार्थ :- वे पछी संक्षेपथी नक्षत्र-यंद्रन। योगो ४९॥वीशु. ॥ ४८ ॥ અભિજિત્ નક્ષત્રનો ચંદ્ર સાથે યોગ : અહોરાત્ર અર્થાત્ સાધિક નવમુહૂર્ત જેટલો डोय छे. शतभिष५, म२५, भा, संश्लेषा, स्वाति तथा ज्येष्ठ.. २॥ ७ नक्षत्र ૧૫(પંદર) મુહૂર્તના યોગવાળા છે. ત્રણ ઉત્તરા-પુનર્વસુ-રોહિણી અને વિશાખા આ છે
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy