________________
અધિકાર-૯ઃ નક્ષત્ર યોગ
तदेवमुक्तमष्टमं प्राभृतं, सम्प्रति नक्षत्रयोगप्रतिपादकं प्राभृतं विवक्षुराह
नक्खत्तचंदजोगे एत्तो वोच्छं समासेणं ॥ १४९ ॥ अभिइस्स चंदजोगो सत्तट्टीखंडिओ अहोरत्तो । भागा य एक्कवीसं ते पुण अहिगा नव मुहुत्ता ॥ १५० ॥ सयभिसय भरणी अद्दा अस्सेसा साइ तह य जेट्ठा य । एते छनक्खत्ता पनरसमुहुत्तसंजोगा ॥ १५१ ॥ तिन्नेव उत्तराओ पुणव्वसू रोहिणी विसाहा य । एते छनक्खत्ता पेणयालमुहुत्तसंजोगा ॥ १५२ ॥ अवसेसा नक्खत्ता पण्णरसवि होंति तीसइमुहुत्ता ।
चंदंमि एस जोगो नक्खत्ताणं समक्खातो ॥ १५३ ॥ _ 'इतः' अष्टमप्राभृताभिधानादनन्तरं नक्षत्राणां चन्द्रेण सह योगान् वक्ष्ये ॥ १४९ ॥ प्रतिज्ञातमेव निर्वाहयति- 'अभिजितः' अभिजिन्नक्षत्रस्य चन्द्रेण सह योगः सप्तषष्टिखण्डितः-सप्तषष्टिप्रविभागीकृतो योऽहोरात्रस्तस्य सत्का ये एकविंशतिर्भागास्तावन्तं कालं भवति, ते चैकविंशतिः सप्तषष्टिभागाः परिभाव्यमाना नव मुहूर्ता अधिकाः-सप्तविंशतिसप्तषष्टिभागाधिका भवन्ति, तथाहिसप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्का ये एकविंशतिर्भागास्ते मुहूर्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि६३०,
१. अद्धखेत्ता मुणेतव्वा' इति म. वि. ॥ २. 'दिवड्डखेत्ता मुणेतव्वा' इति म. वि. 'पणेयालीस मुहुत्ता एते छच्चेव नक्खत्ता' - जे०ख०।