SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अधिकार छट्टो - नक्षत्र परिमाण ११९ बृहस्पतिः अश्लेषानक्षत्रस्य सर्पः मघानक्षत्रस्य पितृनामकः पूर्वफाल्गुनीनक्षत्रस्य भगनामकः उत्तराफाल्गुनीनक्षत्रस्यार्यमा हस्तनक्षत्रस्य सविता चित्रानक्षत्रस्य त्वष्टा स्वातिनक्षत्रस्य वायुः विशाखानक्षत्रस्य इन्द्राग्निः अनुराधानक्षत्रस्य मित्र: ज्येष्ठानक्षत्रस्येन्द्रः मूलनक्षत्रस्य नैर्ऋतः पूर्वाषाढानक्षत्रस्य आप:, उत्तराषाढानक्षत्रस्य विष्वक्, न चैतदनार्षं यत उक्तं सूर्यप्रज्ञप्तौ'ता एएसि णं अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते किंदेवयाए पण्णत्ते ? ता बम्हदेवयाए पन्नत्ते । सवणनक्खत्ते किंदेवयाए पन्नत्ते ? ता विण्हुदेवयाए पन्नत्ते, धणिट्ठानक्खत्ते किंदेवयाए पन्नत्ते ? ता वसुदेवयाए पन्नत्ते, सयभिसयानखत्ते किंदेवयाए पन्नत्ते ? ता वरुणदेवयाए पन्नत्ते, पुव्वपोट्ठवयानक्खत्ते किंदेवयाए पन्नत्ते ? ता अजदेवयाए पन्नत्ते, उत्तरापोट्ठवयानक्खत्ते किंदेवयाए पन्नत्ते ? ता अभिवड्ढिदेवयाए पन्नत्ते, एवं सव्वे वि य पुच्छिज्जंति, रेवई पुस्सदेवयाए, अस्सिणी अस्सदेवयाए, भरणी जमदेवयाए, कत्तिया अग्गिदेवयाए, रोहिणी पयावइदेवयाए, मिगसिरे सोमदेवयाए, अद्दा रुद्ददेवयाए, पुणव्वसू अदिइदेवयाए, पुस्सो विहस्सइदेवयाए, अस्सेसा सप्पदेवयाए, पुव्वफाग्गुणी भगदेवयाए, उत्तराफग्गुणी अय्यमदेवयाए, हत्थे सवियादेवयाए, चित्ता तट्ठदेवयाए, साई वाउदेवयाए, विसाहा इंदग्गिदेवयाए, अणुराहा मित्तदेवयाए, जेट्ठा इंददेवयाए, मूले नेरइदेवयाए, पुव्वासाढा आउदेवयाए, उत्तरासाढानक्खत्ते विस्सदेवयाए पन्नत्ते" [ सूत्र ४६ ] इति ॥ १३६-१३८ ॥ तदेवमुक्तानि नक्षत्राधिपतिदेवानां नामानि, सम्प्रति सीमानं विवक्षुराह इत ऊर्ध्वं नक्षत्राणां मण्डलेषु योगमधिकृत्य सीमानमपि यथागमं मे प्रतिपादयतः श्रुणुत ॥ तमेवाह - सीमानां योगमधिकृत्य वक्ष्यमाणस्वरूपाणां परिज्ञानार्थमेकमण्डलस्येहाष्टविंशत्या नक्षत्रैः स्वभावगत्या स्वस्वकालपरिमाणेन क्रमशो यावत्क्षेत्रं बुद्ध्या व्याप्यमानं संभाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावत्प्रमाणमेव च द्वितीयमर्द्धमण्डलमित्येवंप्रमाणं बुद्धिपरिकल्पितमेकं मण्डलं छेदो ज्ञातव्यः, एकं शतसहस्रं परिपूर्णानि चाष्टानवतिः शतानि, कथमेतस्योपपत्तिः ? इति चेदुच्यते - इह त्रिविधानि नक्षत्राणि, तद्यथा समक्षेत्राणि अर्द्धक्षेत्राणि द्वयर्द्धक्षेत्राणि च इह यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते सूर्येण तावत्प्रमाणं चन्द्रेण सह योगं यानि गच्छंति तानि समक्षेत्राणि, समं - अहोरात्रप्रमितं क्षेत्रं येषां तानि समक्षेत्राणीतिव्युत्पत्तेः, तानि च पंचदश, तद्यथा - श्रवणं धनिष्ठा पूर्वभाद्रपदा रेवती अश्विनी ५ कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी १० हस्तश्चित्रा अनुराधा मूलः पूर्वाषाढा १५ इति, तथा यान्यर्द्धमहोरात्रमितस्य क्षेत्रस्य चन्द्रेण सह योगमश्नुवते तान्यर्द्धक्षेत्राणि, अर्द्ध
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy