________________
૪૬૫
64हे श५६ : माग-१
मंजूसाए पक्खस्स भोयणं पाणगं च ताला य । अत्थं साहर रण्णो, भणणमणिच्छे तयाणयणं ॥३३३॥ देव इह सव्वसारं, किमणेणं पक्खमेगरक्खावे । दारण्णतालसीसगमुद्दा अट्ठट्ठ पाहरिया ॥३३४॥ तेरसमम्मि य दियहे, रणो धूयाए वेणिछेओत्ति । मंतिसुया किल फुटुं, रुवणे रण्णो महाकोवो ॥३३५॥ घाएह तयं अहवा, सव्वेच्चिय डहह मत्तगा एए । किंकरगम गेण्हण भंडणाय पेच्छामु देवत्ति ॥३३६॥ दिट्ठिम्मि एत्थ जोगा, तत्तं जाणाहि मुद्दसंवाओ । उग्घाडणे णिरूवण, छुरियावेणीय मंतिसुओ ॥३३७॥ सज्झस किमिदं देवो, जाणइ तह विम्हओ उ सव्वेसिं । तप्पुच्छ पूयणा सव्वणास णो वेणिछेयाउ ॥३३८॥ एत्तो उ किल पयट्टो, एत्थाहं जाव एवमेव त्ति । एवमचिंतं कम्मं, विरियपि य बुद्धिमंतस्स ॥३३९॥
अथ संग्रहगाथागमनिका-वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य राज्ञो 'नेमित्तागम'त्ति नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्वत्थाणि' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां किं सुखं दुःखं वा कस्यापूर्वं भविष्यतीति ॥३३०॥
नैमित्तिकः प्राह-मंन्त्रिणो मारीपतनं । राजा-कदा? नैमित्तिकः-पक्षादारत इति । ततस्तूष्णीका बद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मंतिनिग्गम'त्ति तत आस्थानाद् निर्गमे कृते मन्त्रिणा काले प्रस्तावे नैमित्तिकाह्वानमकारि स्वगृहे ॥३३१॥
ततः 'पइरिक्के' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः-सुतदोषात् प्रत्ययस्तव कुस्वप्न इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशननिषेधरूपा च कृता। 'संवायत्ति' संवादे स्वप्नस्य 'पुत्तमालोय'त्ति पुत्रेण सहालोचनं विधाय निरोधः कृतस्तस्य ॥३३२॥
क्वेत्याह-मञ्जूषायां तथा पक्षस्य भोजनं पानकं च पुत्रनिमित्तं निरूपितं । तालाश्च' तालकानि दत्तानि । ततो मन्त्रिणा अर्थं 'संहर' स्वीकुर्विति राज्ञो भणनमकारि। अनिच्छे नृपतौ कथञ्चिदुपरुध्य 'तदानयनं' मञ्जूषानयनं राजकुले कृतम् ॥३३३॥