SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (३८) घोडशs usen - 3 विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वरमोहजयसमः प्रवृत्तिफलः ॥९॥ :विवरणम् : अधुना विघ्नजयमाह - विघ्नेत्यादि । विजजयस्त्रिविधः खलु विज्ञेय इति, विघ्नस्य-धर्मान्तण्यस्य जयः-पराभवो निराकरणम् । स त्रिविधः तिस्रो विधा अस्येति त्रिविध:- त्रिभेदः, खलुशब्दो वाक्यालङ्कारे, त्रैविध्यमेवाह-हीनमध्यमोत्कृष्टः - हीनमध्यमाभ्यां सहि त उत्कृष्टः, एको हीनो विघ्नजयो अपरो मध्यमोऽपरस्तूत्कृष्ट इति। वैविध्यमेव निदर्शनेन साधर्म्यगर्भमाह-मार्ग इह कण्टक-ज्वर-मोहजयसम इति, मार्गे प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविघ्नजयसमो मोहविघ्न-जयसमः। . .. इदमत्र तात्पर्यं-यथा नाम कस्यचित्पुरुषस्य प्रयोजनवशान्मार्गप्रवृत्तस्य कण्टकाकीर्णमार्गावतीर्णस्य कण्टक-विघ्नो विशिष्टगमनविघातहेतुर्भवति, तद्रहिते तु पथि प्रवृत्तस्य गमनं निराकुलं सञ्जायते, एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः । कण्टकाचेह सर्व एव प्रतिकूलाः शीतोष्णादयो धर्मस्थानविघ्नहेतवः, तैरभिद्रुतस्य धर्माथिनोऽपि निराकुलप्रवृत्त्यसिद्धेः, आशयभेदश्चायं बाह्यकण्टकविघ्नजयेनोपलक्ष्यते। तथा तस्यैव ज्वरवेदनाभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि कर्तुमशक्नुवतः कण्टक-विघ्नादभ्यधिको ज्वरविघ्नः । तज्जयस्तु विशिष्टगमनप्रवृत्तिहेतुर्निराकुलशरीरत्वेन परिदृश्यते । इहापि ज्वरकल्पां शारीरा एव रोगाः परिगृह्यन्ते तदभिभूतस्य विशिष्टधर्मस्थानाराधनाऽक्षमत्वात् । ज्वरकल्पशरीरदुःखविघ्नजयस्तु सम्यग्धर्मस्थानाराधनाय प्रभवति । પ્રયત્નથી એવા ઊંડા સંસ્કાર પડે કે જેથી સાધ્યની સિદ્ધિ સુધી એ પ્રયત્નોની ધારા નિરંતર ચાલુ २३. ८. (3) विनय माशयतुं स्व३५ : माराधनामा तराय३५ जनता (१) धन्य (२) मध्यम मने (3) दृष्ट : मा ત્રણ પ્રકારનાં વિઘ્નોનો જય કરવો. વિપ્નોને જીતી મોક્ષના માર્ગમાં અવિરત પ્રયાણ ચાલુ २५. प्रवासाने भुसारीमi (१) ५ोटोपासवान (२) तावनु भने (3) हिशाभूलनु વિદ્ધ નડે છે. જેથી સુખપૂર્વક મુસાફરી કરી ઈષ્ટ સ્થાને પહોંચી શકાતું નથી; તેમ મોક્ષના માર્ગે, ધર્મઆરાધનામાં કાંટો વાગ્યા જેવું પહેલું જઘન્ય વિઘ્ન; શીત, ઉષ્ણ વગેરે સઘળા ય પ્રતિકૂળ પરીષહો છે. એનાથી પરાભવ પામેલો ધર્મનો અર્થી જીવ પણ નિરાકુલપણે ધર્મપ્રવૃત્તિ કરી શકતો નથી. પરીષહોને સારી રીતે સહન કરવાથી આ વિઘ્નનો જય થઈ શકે.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy