SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૫૪. ૩-પૂજા અષ્ટક गर्म पुष्पदानादष्टभिरित्यर्थः । 'बहुभि'भूरिभिस्तदुद्देशेन बहूनां दानात् वाशब्दौ स्तोकबहुपुष्पपुञ्जयोर्बहुमानप्रधानस्य फलम्प्रत्यविशेषप्रतिपादनार्थो । अपिशब्दच समुच्चयार्थ इति । 'पुष्पैः' कुसुमैः, 'जात्यादिसम्भवै' मालतीप्रभृतिप्रसवैरादिशब्दाद्विचकिलादिपरिग्रहः । इह कश्चिदाह- जात्यादिग्रहणं सुवर्णादिसुमनसां निषेधार्थ, जात्यादिकुसुमानि हि सकृदारोपितानि निर्माल्यमिति कृत्वा न पुनः पुनरारोप्यन्ते, सौवर्णादीनि तु पुनः पुनरारोपणीयानि भवन्ति, निर्माल्यारोपणदोष्चैवं प्रसज्यत इति । एतच्चायुक्तम् । “कंचणमोत्तियरयणा-इदामएहिं च विविहेहिं ॥" इत्यनेन तेषामनुज्ञातत्वात्, पुनरारोपणनिषेधे तु कः किमाह, किन्तु यदा नोत्तर्यन्ते तदा निर्माल्यारोपणदोषोऽपि न स्याज्जात्यादिकुसुमानि हि कालातिक्रमेण विगन्धीनि भवन्त्यवश्यमुत्तारणीयानि स्युः, सौवर्णादिनि तु न तथेति नावश्यमुत्तारणीयानि तथाविगन्धत्वाभावादेव तेषां पुनरारोपणेऽपि न तथाविधो दोष इति मन्यते । यदपि कैश्चिदुच्यते अलङ्कारारोपणमयुक्तं वीतरागाकारस्याभावप्राप्तेस्तदपि न युक्तम् । पुष्पारोपणेऽपि तथाप्रसङ्गात्, यथा हि आभरणानि वीतरागस्य नोपपद्यन्ते एवं पुष्पाण्यपि, उभयेषामपि सरागैराचरितत्वादिति । अष्टपुष्पीविधाने कारणमाह- अपायोऽनर्थस्तद्धेतुत्वादपाया ज्ञानावरणादयः, 'अष्टावपायाः' समाहृता 'अष्टापायं' तस्माद्विशेषेण प्रकारान्तरेणैव दग्धरज्जुकल्पकरणतः भवोपग्राहिभ्यश्चतुर्थ्य इत्यर्थः, नितरां निःसत्ताकतया चतुर्थ्य एव घातिकर्मभ्यो मुक्तोऽपेतो धात्वर्थमात्रवृत्ती वा विशब्दनिशब्दाविति विनिर्मुक्त इव विनिर्मुक्तोऽ'ष्टापायविनिर्मुक्त'स्तथा, तस्मादष्टापायविनिर्मोक्षणा'दुस्था' उत्थानं यस्याः सा तदुत्था गुणा अनन्तज्ञानदर्शनादयस्तेषां भूतिः प्रादुर्भावः त एव वा भूतिर्लक्ष्मीर्गुणभूतिस्तदुत्था गुणभूतिर्यस्य स तथा, 'अष्टापायविनिर्मुक्तस्तदुस्थगुणभूति'श्च यः स तथा तस्मै, यद्यपीह गुणीभूतं विनिर्मोचनं क्तप्रत्ययार्थस्यैव प्रधानत्वात्तथापि तच्छब्देन तदेव परामश्यते वक्त्रा तथैव विवक्षितत्वात्, दृष्टचायं न्यायो यथा “सम्यज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पाद्यते'' इत्यादाविति । 'दीयते' वितीर्यते, 'देवदेवाय' स्तुत्यस्तुत्याय, 'या'ऽष्टपुष्पी, साऽ शुद्धा' सावद्या, 'उदाहृता' सर्वज्ञैरभिहितेति । ननु अष्टापायविनिर्मुक्तोत्था एतद्विनिर्मोक्षणोत्था गुणभूतिर्यस्येत्यनेनैवाष्टपुष्पीनिबन्धनस्यावसीयमानत्वात् किं नु तत्शब्दोपादानेनेति ? नैवम्, अष्टापायविनिर्मुक्ताय दीयते इत्यनेनाष्टपुष्पीनिबन्धनमाह, तदुत्थगुणभूतये इत्यनेन चतुष्पुष्पिकाया अनन्तज्ञानदर्शनसुखवीर्यचतुष्टयरूपत्वादष्टकर्मविनिर्मुक्तिप्रभवगुणानाम् । अष्टापायविनिर्मुक्तायेत्यनेनैवावसितमिदमिति चेन्न, सिद्धानां हि कैश्चित्प्रकृतिवियोगात् ज्ञानाभावः शरीरमनसोरभावाद्वीर्याभावो विषयाभावाच्च सुखाभावो भाष्यते, तन्मतव्युदासार्थत्वादित्यमुपन्यासः, तदावारकक्षये हि तेषां न्यायप्राप्तत्वात् । यद्येवं ज्ञानावरणपञ्चकक्षये केवलिनो ज्ञानपञ्चकप्रसङ्गो न चेष्यते "नटुम्मि उ(य) छाउमथिए नाणे " इति वचनात् इति । नैवम्, केवलज्ञानेनैव शेषज्ञानज्ञेयस्य प्रकाशितत्वेन तेषामनर्थकत्वान्नष्टत्वमुपदिश्यत इति । एतेन तु पूर्वार्धन ये मन्यन्ते जिनबिम्बप्रतिष्ठायामवस्थात्रयं कल्प्यते तेन बालावस्थाश्रयं स्नानं निष्क्रमणावस्थोचितं रथारोपणपुष्पपूजादिकं कैवल्यावस्थाश्रयं च वन्दनं प्रवर्तत इति । तन्मतमपाकरोति । नहष्टापायविनिर्मुक्तिद्वारेण २६. काञ्चनमौक्तिकरत्नादिदामकैच विविधैः ।। २७. नष्टे तु छाद्यस्थिके ज्ञाने ॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy