________________
અષ્ટક પ્રકરણ
૩૫
૨-સ્નાન અષ્ટક
सभ्य!- iu (=श्रेष्ठ) अर्थमi Aud छे. ભક્તિ- પ્રીતિવિશેષ.
भूग. uथामा "नमोनमः" मेम नमः नो पार ८५ रीने मस्तिथी २रायेद संभ्रमनु शन राव्युं छे.' (८)
પહેલા મહાદેવ અષ્ટકનું વિવરણ પૂર્ણ થયું.
॥२॥ अथ द्वितीयं स्नानाष्टकम् ॥ उक्तक्रमेण निर्णीतमहत्त्वस्य देवस्य पूजादिकं विधेयम् । तच्च स्नानपूर्वकमिति स्नाननिरूपणायाह
द्रव्यतो भावतश्चैव, द्विधा स्नानमुदाहृतम् । बाह्यमाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते ॥१॥
वृत्तिः- द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यं पुद्गलादि, तस्मात् द्रव्यात् 'द्रव्यतो' जललक्षणं कारणभूतम् १ देहदेशलक्षणं वा शोधनीयं २ मललक्षणं वाऽपनेयं द्रव्यमाश्रित्येत्यर्थः ३ । अथवा द्रव्यतोऽपरमार्थतो द्रव्यशब्दस्याप्राधान्यार्थत्वात् ४, अथवा द्रव्यतो भावस्नानकारणत्वेन कारणार्थत्वात् द्रव्यशब्दस्य ५ ॥ तथा भवनं भावः परिणामस्तस्माद् 'भावतः' शुभध्यानलक्षणं कारणभूतम् १ उपयोगभावात्मकजीवलक्षणं वा शोधनीयम् २ अथवौदयिकभावकारणभूतकर्ममललक्षणमपनेतव्यं भावमाश्रित्येत्यर्थः ३ । भावतः परमार्थतो वेति ४ । 'चशब्दः' समुच्चये । 'एवकारो'ऽवधारणे । एवं च अनयोः प्रयोगः- 'द्रव्यतो भावत एव च' । ततश्च द्रव्यभावभेदेनैव, 'द्विधा' द्विप्रकारम्, नामादिभेदेन तु चतुर्थापि, केवलमिह चतुष्प्रकारत्वं स्नानस्य नाश्रितं, नामस्थापनयोः प्ररूपणामात्रोपयोगित्वात्, न हि स्नानस्य नामस्थापने जिननामस्थापने इव प्रमोदहेतुत्वेन पूजागोचरत्वेन च सोपयोगे इति । अथवा एवकारो द्विधा इत्यनेन सम्बध्यते । तथा च 'द्रव्यतो भावतश्चेति' एवं 'द्विथैव स्नानमुदाहृतं', न तु सप्तधा, यथाहुरेके- "सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयम्भुवा । द्रव्यभावविशुद्ध्यर्थ-मृषीणां ब्रह्मचारिणाम् ॥१॥ आग्नेयं वारुणं बाह्यं, वायव्यं दिव्यमेव च । पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥२॥ आग्नेयं भस्मना स्नान-मवगाह्यं तु वारुणम् । आपो हिष्ठामयं बाह्यं (मंत्रस्नानमित्यर्थः) वायव्यं तु गवां रजः॥३॥ सूर्यदृष्ट-तु यदृष्टं, तद्दिव्यं ऋषयो विदुः । पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम् ॥३॥" इति सप्तविधस्ना
१. वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निंदन् । यत् पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाय ॥१॥
મેરેથી વ્યાક્ષિપ્ત મનવાળો વક્તા સ્તુતિ કરતાં કે નિંદા કરતાં એક જ પદ અનેકવાર કહે તો તેમાં પુનરૂક્તિ होष नथी."