________________
અષ્ટક પ્રકરણ
३०
. १-मडाव स्तुस्वभावत्वात् । आह च-"वत्युसमावो एसो, अचिंन्तचिंतामणी महाभागे । थोऊणं तित्ययरे, पाविज्जइ वंछिओ अत्यो ॥१॥" तथा । उवगाराभावम्मि वि, पुज्जाणं पूयगस्स उवयारो । मन्ताइसरणजलणाइसेवणे जह तहेहं पि ॥२॥" तत्र 'उपायो' हेतुः, 'आराधनोपायः', 'सदा' सर्वस्मिन्नपि दुःषमादिकालेऽपि । अनेन किल विशिष्टकाल एवाज्ञायाः कर्तुं शक्यत्वात्तदैव तदभ्यास आराधनोपायः, दुःषमायां त्वनागमिकप्रवृत्तिरभ्युपायस्तत्राज्ञाया अभ्यसितुमशक्यत्वादिति यस्य मतिः स्यात्तन्मतं प्रत्यस्तम् । यत आह- "समइ (ति) पवित्ती सव्वा, आणाबज्झत्ति भवफला चेव । तित्ययरुद्देसेणवि, न तत्तओ सा तदुद्देसा ॥१॥"
आज्ञायन्ते अधिगम्यन्ते मर्यादया अभिविधिना वा अर्था यया सा 'आज्ञा' आगमः, तस्या अभ्यासो' ग्रहणभावनापारतन्त्र्यलक्षण 'आज्ञाभ्यासः' स 'एव', न पुनस्तद्भक्तितोऽपि तदाज्ञापेता प्रवृत्तिः । पूजादिकं तु तदाज्ञाभ्यास एव तस्य द्रव्यस्तवभावस्तवरूपत्वात् । 'हि' शब्दो वाक्यालङ्कारार्थः ।
ननु यथोक्तस्याज्ञाभ्यास्यातिदुष्करत्वात्कालसंहननादिदोषवतामनाराधनप्रसङ्ग इत्याशङ्कायामाह-'यथाशक्ति' शक्तेः शरीरसामर्थ्यस्यानतिक्रमो यथाशक्ति, तेन शक्तेरनुल्लङ्घनेनागोपायनेन चेत्यर्थः, एवं हि वीर्याचारः कृतो भवति । आह च-"अणिगूहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथाम, नायव्वो वीरियायारो ॥१॥"
आज्ञाभ्यासस्यैव विशेषणार्थमाह-'विधानेन' विधिना, द्रव्यक्षेत्रकालभावानुवर्तनलक्षणेनायव्ययतुलनारूपेणागमिकन्यायेनेति भावः । आह च-"तम्हा सव्वाणुना, सव्वनिसेहो य पवयणे नत्यि । आयं वयं तुलेज्जा, लाहाकंखिव्व वाणियओ" ॥१॥"
ननु आज्ञाभ्यासेनाराधितो यद्यसौ फलप्रदोऽनाराधितस्तर्हि न तथा स्यादित्येवं विषमवृत्तिरसौ स्यादित्यत आह-'नियमात्' अवश्यम्भावेन, 'स' इति स एव आज्ञाभ्यासो यस्य सम्बन्धी, 'फलप्रदो'ऽभिप्रेतार्थसाधको, 'महादेवः स उच्यते' इति प्रकृतम् । अतस्तस्य फलाप्रदायित्वात् तदाज्ञाभ्यासस्यैव च फलसाधकत्वात् कुतो विषमवृत्तित्वदोष इति ॥६॥
મહાદેવની આરાધનાનો ઉપાય બતાવવા દ્વારા મહાદેવનું લક્ષણ જે વીતરાગ છે તેની આરાધના કેવી રીતે કરાય છે ? સ્તુતિ આદિથી તેની આરાધના કરાતી નથી. કારણ કે તેમાં સરાપણાનો (દેવને રાગી બનવાનો) પ્રસંગ આવે. નિંદા આદિથી પણ તેની આરાધના ન કરી શકાય. કારણ કે તેમાં સ્તુતિ વગેરે વ્યર્થ બનવાનો પ્રસંગ આવે. ઉપેક્ષાથી પણ આરાધના કરવામાં તે ४ (तुति ३ व्यर्थ बने ते ४) होप याय. भावी मारीने अंथ २४ छ९. वस्तुस्वभाव एषोऽचिन्त्यचिन्तामणीन्महाभागान् । स्तुत्वा तीर्थकरान् प्राप्यते वाञ्छितोऽर्थः॥ १०. उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः । मन्त्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥ ११. स्वमतिप्रवृत्तिः सर्वा आज्ञाबाह्येति भवफलैव । तीर्थकरोद्देशेनापि न तत्त्वतः सा तदुद्देशा॥ १२. अनिगूहितबलवीर्यः पराक्रमते यो यथोक्तमायुक्तः। युक्ते च यथास्थामं ज्ञातव्यो वीर्याचारः ।। १३. तस्मात् सर्वानुज्ञा सर्वनिषेधच प्रवचने नास्ति ।आय व्ययं तोलयेत् लाभाकांक्षीव वाणिजकः ।