________________
૨૫-પુણ્યાનુબંધિપુણ્ય અષ્ટક
દીક્ષા પણ— માતા-પિતાના ઉદ્વેગનો અભાવ વગેરે તો થશે જ, કિંતુ ઇચ્છેલી દીક્ષા પણ થશે એમ "थए।” शब्दनो संबंध छे. (4)
कुत एतदेवमित्याह
सर्वपापनिवृत्तिर्यत्, सर्वथैषा सतां मता । गुरुद्वेगकृतोऽत्यन्तं, नेयं न्याय्योपपद्यते ॥ ६ ॥
અષ્ટક પ્રકરણ
૨૭૭
वृत्ति:- 'सर्वपापनिवृत्तिः' अशेषावद्यानुष्ठानव्युपरतिः, 'यत्' यस्मात्,' 'सर्वथा' सर्वैः प्रकारैर्निमित्तभावेनापि इत्यर्थः, 'एषा' प्रव्रज्या, 'सतां' विदुषाम्, 'मता' इष्टा, इह तस्मादिति शेषो दृश्यः, तस्मात् ‘गुरूद्वेगकृतो’ मातापितृचित्तसन्तापकारिणः, 'अत्यन्तं' अतिशयेन तदसम्बोधनपूर्वकं शास्त्रोक्तत्सम्बोधनोपायाप्रयोगपूर्वकं वा प्रवृत्तस्य, 'न' नैव, 'इयं' प्रव्रज्या, 'न्याय्या' युक्ता, 'उपपद्यते' घटते, पितृसन्तापरक्षणोपायाप्रवृत्तत्वेन निमित्तभावेन तच्चित्तसन्तापलक्षणपापकारित्वात्तस्येति, परिहर्तव्यश्च तच्चित्तसंतापः । यदाह-*‘'अपडिबुझमाणे (अपडिबुद्धे) कहिंचि पडिबोहिज्जा अम्मापियरो (रे) २३'' प्रव्रज्याभिमुखीकुवतित्यर्थः । " अपडिबुझमाणेसु य कम्मपरिणईए विहिज्जा जहासत्ति तदुवगरणं" ★ तओ अणुनाए पडिवज्जिज्जा धम्मं२४ ।" अथ नानुजानीत, तदा, *"अन्नहा अणुवहे चेव उवहिजुत्ते सिया' अल्पायुरहमित्यादिकां मायां कुर्यादित्यर्थः । एवमुपायप्रवृत्तमपि यदा न मुत्कलयतः, तदा तौ त्यजेत् । न च तौ त्यजतस्तच्चित्तसंतापेऽपि तस्य दोषो विशुद्धभावत्वात् । यदाह- 'सव्वहा अपडिवज्जमाणे चएज्जा ते अद्धाणे (अट्ठाण) गिलाणोसहत्यचागनाएणं' २५ यथाध्वनि ग्लानीभूतयोः पित्रोरौषधाद्यर्थं गच्छतस्तत्त्यागोत्याग एव भावतः, एवं तयो: स्वस्यान्येषां चोपकाराय प्रव्रजत इति ज्ञातभावना, अत एव " सोयणमक्कन्दणविलवणं च जं दुक्खिओ तओ कुणइ । सेवइ जं च अकज्जं, तेण विणा तस्स सो दोसो" ।” (पञ्चवस्तु गा. ८० ) इत्यादिकमाक्षिप्यैवं परिहृतम् । "अब्भुवगमेण भणियं, न उ विहिचागो वि तस्स उत्ति । सोगाइम्म वि तेसिं, मरणेव्व विसुद्धचित्तस्स " ॥ २ ॥ " ( पञ्चवस्तु गा. ९०) क्वचित्पठ्यते 'सर्वपापनिवृत्तिर्या' इति तत्र व्याख्येयं 'सर्वथा सर्वपापनिवृत्तिर्या इतीतरैषा सतां मता, गुरुद्वेगकारिणश्चात्यन्तं नेयं सर्वपापनिवृत्तिर्न्याय्योपपद्यत इति ॥ ६ ॥
આ પ્રમાણે શાથી છે ? એમ કહે છે—
२३. अप्रतिबुध्यमानौ (अप्रतिबुद्धौ) कथञ्चित्प्रतिबोधयेद् अम्मापितरौ ।
२४. ५ अप्रतिबुध्यमानेषु च कर्मपरिणत्या विदध्याद् यथाशक्ति तदुपकरणं ।
★ ततोऽनुज्ञातः प्रतिपद्येत धर्मम् ।
* अन्यथा (तदनुज्ञाभावे) अनुपध एव (भावतः) उपधियुक्तः (ब्याजवान्) स्यात् ।
२५. सर्वथा अप्रतिपद्यमानान् त्यजेत् तान् अध्वनि (अस्थान) ग्लानौषधार्थत्यागज्ञातेन ।
२६. शोचनमाक्रन्दनविलपनं च यद् दुःखितस्ततः करोति । सेवते यच्चाकार्यं तेन विना तस्य स दोषः ।
२७. अभ्युपगमेन भणितं न तु विधित्यागोऽपि तस्य हेतुरिति । शोकादावपि तेषां मरणं इव विशुद्धचित्तस्य ।